________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ६ षष्ठः प्रपाठकः ]
मैत्र्युपनिषत् ।
४२३
9
अप्राणादिति । अप्राणात्प्राणादिविशेषरहिताच्चिद्दात्मन एवेह देहे यस्मात्प्राणसंज्ञको जीवः संभूतः प्राणधारिणोपाधिना प्राणसंज्ञां प्राप्य जीवो जात इति यावत् । तस्मात्प्राणो वै स्वभावतोऽप्राणोऽपि प्राण इति प्रसिद्धः स तुर्याख्येऽवस्थात्रयातीतेऽप्राणे प्राणमात्मानं धारयेत्प्राणात्मभावनां हित्वाऽप्राणचिदात्मभावनां कुर्यादित्यर्थः । एवं ह्याहात्र कश्चिन्मन्त्रः ।
अचित्तं चित्तमध्यस्थमचिन्त्यं गुह्यमुत्तमम् ।
तत्र चित्तं निधायेत तच्च लिङ्गं निराश्रयम् ।। १९ ॥
अचित्तं चित्तरहितं चित्तमध्यस्थमन्तर्मनस्यभिव्यक्तं चित्तैमध्यस्थितमपि तेनाचिन्त्यं चिन्तनानर्हमत एवोत्तमं गुह्यमतिगुह्यं सर्वेन्द्रियाविषय इत्यर्थः । तत्राचिन्त्ये गुह्ये तत्त्वे चित्तं निधायेत तदाकारीकरणेन तन्मयं चित्तं कुर्यात् । तच्च प्राणाख्यं लिङ्गं लिङ्गोपाधिकं जीवरूपं निराश्रयमभिमन्तुराश्रयस्याभावात्तदा न पृथगवभासत इत्यर्थः । यद्वाssश्रयशब्दो विषयपरः । तथा च तच्च चित्ताख्यं लिङ्गं निराश्रयं निर्विषयं संपद्यते तदेति शेषः ॥ १९ ॥
एवं ज्ञानमार्गेर्णोऽऽत्मनोऽवस्थात्रयातीतस्वरूपे धारणाप्रकारमभिधाय योगमार्गेणापि धारणाविशेषं कैवल्यं संगतमुपदिशति -
अथान्यत्राप्युक्तमतः पराऽस्य धारणा तालुरसनाग्रनिषीडनाद्वाङ्मनः प्राणनिरोधनाद्ब्रह्म तर्केण पश्यति यदाऽऽत्म • नाऽऽत्मानमणोरणीयांसं द्योतमानं मनःक्षयात्पश्यति तदाssत्मनाऽऽत्मानं दृष्ट्वा निरात्मा भवति निरात्मकत्वादसंख्योऽयोनिश्चिन्त्यो मोक्षलक्षणमित्येतत्परं रहस्यमित्येवं वाह । अथान्यत्राप्युक्तं • मित्येवं ह्याहेति । अतोऽनन्तरमस्य तुर्यात्मनि स्थितस्याss। त्मनः परोत्कृष्टा धारणा पराऽन्येति वा कथ्यत इति वाक्यशेषः । यदाऽयं योगाभ्यासवशीकृतचित्तः सन्नुन्मनीभावं जिगमिषति तदाऽयमुपायः कार्यः । कथम् । तालुकण्ठदेशे जिह्वोद्गमनस्थानं तस्मिंस्तालुनि रसनाग्रस्य निपीडनमन्तः प्रवेशनं तस्मात्तालुरस - नाग्रनिपीडनाल्लम्बिका योग करणादिति यावत् । तत्र च वाङ्मनः प्राणानां निरोधनात्संकस्पोच्चारणस्पन्दनानां परिवर्जनाद्ब्रह्म पारमेश्वरं तत्त्वं तर्केण धारणानन्तरभाविना निश्चितरूपेण ज्ञानेन पश्यति । यदैवंप्रकारेण मनःक्षयान्मनसो मनस्त्वनाशादणोः सूक्ष्मादप्यणीयांसमतिसूक्ष्ममिन्द्रियागोचरं द्योतमानं स्वयमेव प्रकाशमानमात्मानं प्रत्यञ्चमात्मैना
१. 'ख्यो । २ क. 'तीतोऽप्राणः प्रा' । ३ ग त । ४क. 'णाव । ५ क. "बल्यसं' । ६ क. न्मनस्त्व' । ७. 'हमनेत्थं ।
For Private And Personal