SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ ६ षष्ठः प्रपाठकः] मैन्युपनिषत् । अस्यति । अस्य परमात्मन एतद्यथोक्तं भास्वरं स्वप्रकाशं जगदवभासकं रूपं स्वरूपं यद्रूपममुष्मिन्नादित्ये प्रसिद्ध तपत्यादित्ये स्थितं सज्जगत्तापयति प्रकाशयति चैतदस्य रूपमिति । किंचाधूमकेऽग्नौ यज्ज्योतिस्तदप्यस्यैव रूपमिति संबन्धः। कीदृशं ज्योतिश्चिप्रतरमतिविचित्रं तत्तदिन्धनभेदवशात्कृशस्थूलवक्रत्वाद्याकारणावभासमानमित्यर्थः । अथ वा योऽन्योऽप्युदरस्थो जाठरसंज्ञोऽग्निरन्नं भुक्तं पचति सोऽप्यस्यैव रूपमिति संबन्धः । इत्येतदेव प्रशंसन्नेवं ह्याहात्रापेक्षितं विशेषमिति शेषः । यश्चैषोऽग्नौ यश्चायं हृदये यश्चासांवादित्ये स एष एका इत्ये कस्य हैकत्वमेति य एवं वेद ॥ १७ ॥ यश्चैषोऽग्नौ ज्योतीरूपो यश्चायं हृदये साक्षिरूपो यश्चासावादित्ये तपनप्रकाशनस्वभाव एष परमात्मैव स एको नान्य इत्येवंप्रकारेणाऽऽत्मन्यादित्यादौ च परमात्मैव ज्योतिरिति य एवं वेदोपास्ते स एकस्य परमात्मनो हि स्फुटमेकत्वमेति प्राप्नोति परमात्मसायुज्यं गच्छति तस्मात्सर्वत्र प्रकाशस्वरूपं परमात्मैवाहमित्युपासीतेति वाक्यार्थः ॥ १७ ॥ पूर्वानुवाके ध्येयं रूपं ध्यानविधिं च दर्शयित्वेदानी ध्येये चित्तस्थिरीकरणलक्षणस्य ध्यानस्य सिद्धये चित्तवशीकारोपायं योगं साङ्गमुपदिशति तथा तत्प्रयोगकल्पः प्राणायामः प्रत्याहारो ध्यानं धारणा तर्कः समाधिः पैडङ्ग इत्युच्यते योगः। तथा तत्प्रयोगकल्पः ० इत्युच्यते योग इति । यथा प्रागुक्तोपासैनासाधनचित्तैकाम्यसिद्धिस्तथा तत्प्रयोगकल्पस्तस्य चित्तैकाग्यसाधनस्य प्रयोगकल्पोऽनुष्ठानविधिरयमुच्यत इति वाक्यशेषः। तमेवाऽऽह–प्राणायामः पूरककुम्भकरेचकभेदेन प्राणवायोरायमनं वशीकरणं प्राणायामः । इन्द्रियाणां विषयेभ्यः प्रत्याहरणं प्रतिनिवर्तनं प्रत्या. हारः । पराकस्रोतःपरावर्तनेनेन्द्रियाणां प्रत्यक्त्रोतःप्रवर्तनं प्रत्याहार इत्यर्थः । ध्येये वस्तुन्यन्तःकरणस्य प्रयत्नेन तदाकारतया निवेशनं ध्यानम् । तस्मिन्नेव तस्य तैलधारीदिवदविच्छेदेन स्थिरीकरणं धारणं धारणा । मनो ध्येये वस्तुनि तदाकारतया सम्य. संपन्नं न वेति परीक्षणं तकः। ध्यानधारणासामर्थ्यादुपस्थितक्षुद्रसिद्धीनां योगान्तरायत्वोहनं वा तर्कः । सविकल्पकसमाधिर्वा तर्कः । चित्तस्य ज्ञेयवस्त्वाकारतामापन्नस्य निर्वातदेशस्थप्रदीपशिखावदचलतयाऽवस्थानं समाधिः । इत्येवं षड्विधैरङ्गैरुपेतो योगः षडङ्ग उच्यत इत्यर्थः। १ क. 'त्येतावदे । २ ग. सा आदि। ३ ग. षडङ्गा । ४ क. “सनसा'। ५ क. राव ६ क. कैः । स। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy