SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४२० रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः ] गोचरे वर्तते स्वयं च मनोगोचरो नायम् । तथा 'न तस्य कार्य करणं च विद्यते न चास्य कश्चिजनिता न चाधिपः' (श्वे० उ०) 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति श्रुतेरित्यर्थः । तत्रासङ्गत्वं हेतुमाह एष आकाशात्मा। एष आकाशात्मेति । आकाशवदसङ्ग आत्मा स्वरूपं यस्य स तथा । न हि मनसाऽसंबद्धं मनोवेद्यं भवेदतिप्रसङ्गात् 'असङ्गो ह्ययं पुरुषः' (बृहदा०) इति श्रुतेर्नास्य मनःसंसर्ग इत्यर्थः । तत एवंविधस्याऽऽनन्त्ये न कोऽपि विघ्न इति सिद्धम् । इतोऽप्ययमनन्त एष्टव्य इत्यभिप्रेत्याऽऽह एवैष कृत्स्नक्षय एको जागर्ति । एवैष इति । एष एवेत्यन्वयः । कृत्स्नसये सर्वजगत्प्रलय एक एवैष परमात्मा जागर्त्यप्रच्युतस्वभावो वर्तते । अन्यत्किमपि तदा नाभूदित्यर्थः । तथा च श्रुत्यन्तरम्'आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत् ' (ऐतरेयोप० ) इति । एतदेव सर्वविकारकारणत्वेन सर्वाधिष्ठानतया स्पष्टी करोति इत्येतस्मादाकाशादेष खल्विदं चेतामात्रं बोधय त्यनेनैव चेदं ध्यायतेऽस्मिंश्च प्रत्यस्तं याति । इत्येतस्मादिति । इतिशब्द उक्तविशेषणसमाप्त्यर्थत्वेन पूर्वेण वाऽन्वेति । एतस्मादित्येव प्रतीकमिदम् । एष एव कृत्स्नक्षय एको जागर्तीति यतोऽत एतस्मादित्याचे प्रतीके योजना । एतस्मादाकाशात्प्रसिद्धाद्भूताकाशादारभ्य यदिदं जगच्चेतामात्रं चेत्यमात्रमिति यावत् । चैतन्याभासव्याप्तत्वेनोपलभ्यमानत्वाचेत्यमपि चेतामात्रमुच्यत इति द्रष्टव्यम् । आकाशादि सर्व जगदेष खलु परमात्मा बोधयति बोधव्याप्त करोति पालयतीत्यर्थः । किंचानेनैव परमात्मनेदं ध्यायते ध्यानमात्रेणोत्पाद्यते 'सोऽकामयत बहु स्यां प्रजायेय' इति 'इदं सर्वमसृजत' इति च श्रुतेः । अस्मिंश्चास्मिन्नेव प्रत्यस्तं प्रलयं यात्येकात्मतां गच्छतीत्यर्थः । तस्मादेक एवैष कृत्स्नाये जागर्तीत्युपपन्नमस्य सर्वदैवानन्तत्वमिति भावः । एवमुपास्यस्य परमात्मनः स्वाभाविकं स्वरूपमुपवर्ण्य तस्योपासनाधिष्ठानं निर्दिशन्नाह-- अस्यैतद्भास्वरं रूपं यदमुष्मिन्नादित्ये तपत्यग्नौ चाधूमके यज्ज्योतिश्चित्रतरमुदरस्थोऽथ वा यः पचत्यन्नमित्येवं ह्याह । १ क. ते तस्मि । २ क. त्रं चैतन्यमा । ३ क. °लब्धव्यत्वा । ४ क. 'मौ वाऽधू । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy