________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः ] ब्रा०८) इति । यस्मिंस्तु कालात्मा सविता पच्यते लीयते तं यो वेद स वेदरहस्यविदित्यर्थः ॥ १५॥ पुनरपि सकलं कालं स्तौति
विग्रहवानेष कालः सिन्धुराजः प्रजानाम् । एष तत्स्थः सविताख्यो यस्मादेवेमे चन्द्रग्रिहसंवत्सरादयः सूयन्तेऽथेभ्यः सर्वमिदमत्र वा यत्किचिच्छुभाशुभं दृश्यतेह लोके तदेतेभ्यस्तस्मादादित्यात्मा ब्रह्माथ कालसं
ज्ञमादित्यमुपासीताऽऽदित्यो ब्रह्मेत्येकेऽथैवं ह्याह । विग्रहवानेष इति । विग्रहवान्मूर्तिमानेष कालः पूर्वोक्तः प्रजानां सिन्धुराजः समुद्रः समुद्रवद्दुस्तर इति यावत् । एष सविताख्यो यस्मात्तत्स्थस्तस्मिन्काले निमित्ततया स्थितः । कोऽसौ सविताख्यः । यस्मादेव सवितुरिमे चन्द्रादयः सूयन्तेऽभिषूयन्त आप्या. यन्ते स्वतेजःप्रवेशनेनेत्यर्थः । अथ प्रसिद्धमेभ्यश्चन्द्रादिभ्यः सर्वमिदम् । किम् । यत्किंचिच्छुभाशुभमिह लोके दृश्यते सुखदुःखादीत्यर्थः । तदेतेभ्य आदित्यादिग्रहेम्यो निमित्तभूतेभ्य इत्यर्थः । यस्मादेवमादित्यनिमित्ता जगत्स्थितिस्तस्मादादित्यात्मा ब्रह्म । यत एवंप्रभाव आदित्योऽथ तस्मात्कालसंज्ञमादित्यमुपासीतेत्येतद्विधिवाक्यम् । कालसं. ज्ञमादित्यं ब्रह्मेत्युपासीतेत्यर्थः । एके शाखिनः कालसंज्ञालक्षणं गुणमनादृत्याऽऽदित्यो ब्रह्मेत्यादित्योपासनं ब्रह्मदृष्ट्या विदधत्यादित्यो ब्रह्मेत्यादेश इत्यत्रेत्यर्थः । सर्वथाऽप्यादित्यो ब्रह्मेत्येवं ह्याह मन्त्रः।
होता भोक्ता हविर्मत्रो यज्ञो विष्णुः प्रजापतिः।
सर्वः कश्चित्प्रभुः साक्षी योऽमुष्मिन्भाति मण्डले ॥ १६ ॥ होता हविषः प्रक्षेप्ता यजमान ऋत्विग्वा भोक्ता हविषः स्वीकर्ता देवताविशेषो हविश्चर्वादिद्रव्यं मन्त्रस्तत्प्रक्षेपसाधनत्वेन विहित एतैः सर्वैः साध्यो यो यज्ञः से को विष्णुः । यज्ञो वै विष्णुरिति श्रुतेः । प्रजापतिः प्रजानां पालयितेश्वरः कर्मफलदातैवंविधो यो जगद्धेतुकलापः स सर्व एष एवेत्यध्याहारः । कः । योऽमुष्मिन्दूरस्थे मण्डले भाति प्रकाशते । किंलक्षणः कश्चिदेको यः कश्चिदिति वा संबन्धः । प्रभुः स्वतन्त्र ईश्वरः । साक्षी साक्षात्सर्वद्रष्टेत्यर्थः ॥ १६ ॥
इदानीमादित्यप्रतीकोपासनप्रसङ्गेनाऽऽदित्यान्तर्यामिणो ब्रह्मण उपासनाविशेष विधित्सन्नाह
१ ग. दृश्यन्तेह । २ क. मानो भों। ३ क. स एको। ४ क. 'नाविधिवि' । ५ क. 'पं प्रशंसन्ना।
For Private And Personal