________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथर्वशिरउपनिषत् । नित्यं तिस्रो मात्राः परस्तु सः । तस्योत्तरतः शिरो दक्षिणतः पादो य उत्तरतः स ओंकारो य ॐकारः स प्रणवो यः प्रणवः स सर्वव्यापी यः सर्वव्यापी सोऽनन्तो योऽनन्तस्तत्तारं यत्तारं तत्सूक्ष्मं यत्सूक्ष्मं तच्छुक्लं यच्छुक्लं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्मेति स एकः स एको रुद्रः स ईशानः स भगवान्स महेश्वरः स महादेवः ॥ ४॥
अथ कस्मादुच्यत ओंकारो यस्मादुच्चार्यमाण एव सर्व शरीरमूर्ध्व
नित्यं सर्वदा। तिस्रो मात्रास्त्रिसंख्याका अकारोकारमकाराख्यास्ताभ्यः परस्तु, उत्कृष्ट एव । स ओंकारो रुद्रः । त्वमसीत्यन्वयः । तस्य तव सर्वदेवतात्मन ॐकाराभिन्नस्योत्तरत उत्तरस्मिन्निवृत्तिमार्ग इत्यर्थः । शिर उत्तमाङ्गं मोक्षरूपमित्यर्थः । दक्षिणतो दक्षिणमार्गे प्रवृत्तिमार्ग इत्यर्थः । पादः संसारचक्रं मरणमज्ञानम् । यः प्रसिद्धः । उत्तरत उत्तरमार्गस्थो मोक्षरूपः । स उक्त उत्तरभागग ओंकारोऽक्षरस्वरूपनिर्देशोऽयम् । इदानीमस्योंकारस्य विविधान्पर्यायान्दर्शयति मोक्षरूपानन्दत्वेन पर्यवसानं करोति । य ओंकारः स प्रणवो यः प्रणवः स सर्वयापी यः सर्वव्यापी सोडनन्तो योऽनन्तस्तत्तारं यत्तारं तत्सूक्ष्मं यत्सूक्ष्मं तच्छुक्लं यच्छुक्लं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्म । ओंकारप्रणवसर्वव्याप्यनन्ततारसूक्ष्मशुक्लवैद्युतपरब्रह्मपदानि श्रुतिरेव व्याकरिष्यति । अत्र तु प्रत्येक पदमनूद्याभिधानाभिधेयवाचकानां पदानामेकार्थत्वाभिधायित्वेन प्रत्येकं तदा पर्यायत्वं विधीयत इति विशेषः । इति प्रणवपर्यायपरिसमाप्त्यर्थः । इदानीमभिधेयवाचकानां पर्यायाणामभिधानवृत्त्यर्थमाह । सः प्रणवात्मोक्तः । परब्रह्मान्तशब्दः परब्रह्म तारक एकः । स एको रुद्रः स ईशानः स भगवान्स महेश्वरः स महादेवः । एतानि पदानि श्रुतिरेव व्याकरिष्यति । शब्दभेदाद्देवताभेद इति न्यायप्राप्तमेकाद्यर्थभेदं वारयितुं घट्तत्पदानि ॥ ४ ॥ __ अथ । अनुपपत्तिसूचनार्थोऽथशब्दः । यद्ययमर्थवाचिशब्दः कथमनावृत्तः शब्दवाची स्यात् । शब्दवाचित्वेऽप्ययमेव दोषः । उभयवाचित्वं च न्यायविरुद्धमनेनैवाभिप्रायेण पृ. च्छति। कस्मात्केन कारणेन शब्देनार्थेनोभयेन वा तत्रापि रूढ्या योगेन वृत्त्यन्तरेणैव वेत्यर्थः । उच्यते कथ्यते । ओंकारः प्रतीकमिदम् । इति शिष्येण पृष्टा गुरुभूता श्रुतिराह । यस्माद्यतः। उच्चार्यमाण एव, उच्चारणार्थं प्रयत्ने क्रियमाण एव विलम्बमन्तरेण सर्व निखिलं कुण्डलिनीमुखमारम्यैकादशद्वारं शरीरं ज्ञानदर्शनेन काष्ठाग्निं विनाश्योर्ध्व
For Private And Personal