SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शंकरानन्दविरचितदीपिकासमेतासर्वजगद्धितं वा एतदक्षरं प्राजापत्यं सूक्ष्मं सौम्यं पुरुषमग्राह्यमग्राह्यण वायु वायव्येन सोमं सौम्येन ग्रसति स्वेन तेजसा तस्मा उपसंहर्ने महाग्रासाय वै नमो नमः ॥ ३॥ हृदिस्था देवताः सर्वा हृदि पाणे प्रतिष्ठिताः । हृदि त्वमसि यो रित्यन्वयः । अज्ञानोपादानोऽज्ञाननिमित्तोऽज्ञानविषयश्चाज्ञानाभावे कथमयं स्यादित्यर्थः । इदानी प्रणवाख्यं परं ब्रह्म विज्ञातुं सद्यथाऽश्वेभ्यो हितं तथाऽन्येभ्योऽपीत्यर्थकथनेन मन्त्रान्तरमप्युद्धरन्ति । सर्वजगद्धितं सर्वस्मै जगते हितं सर्वजगद्धितम् । वै प्रसिद्धम् । एतत् , पूर्वोक्तमभिधानमभिधेयाभिन्नम् । अक्षरम्, ओंकाराभिन्नरूपं विनाशशून्यं ज्ञप्तिमञ्च । प्राजापत्यं प्रजापतिना हिरण्यगर्भणावगतं प्रजापतिपदप्रदात वा । सूक्ष्ममणुरूपं दुरवगममित्यर्थः । सौम्यं सोमो भवानीपतिस्तेनानन्यत् । सौम्यं प्रियदर्शनं वा । पुरुषं परिपूर्णम् । अग्राह्यं ग्रहणायोग्यम् । अग्राह्येण प्रत्यक्षग्रहणायोग्येन ग्रहादिना। वायुं गतिगन्धनकारिणं भोगापवर्गप्रदमित्यर्थः । वायव्येन वायुसंबन्धिनाकप्रवृत्तिनिवृत्तिमार्गानुष्ठानेनेत्यर्थः । सोमं सशक्तिकम् । सौम्येन शक्तिविलासेन । ग्रसति भक्षयति तत्तदधीनं करोतीत्यर्थः । अथवाऽग्राह्यमात्मानमग्राह्येणाऽऽत्मस्वरूपेण । वायुं प्राणादिप्रभञ्जनम् । वायव्येन वायुसंबन्धिना प्राणायामादिना । सोमं चन्द्रमण्डलरूपमन्तर्बहिर्वर्तमानम् । सौम्येन सोमविनाशकेनाग्न्यादिना । ग्रसति विनाशयति । स्वेन स्वात्मनाऽनन्यरूपेण । तेजसा ज्योतिषा विभूतिमद्भावेनेत्यर्थः । तस्मै सर्वजगद्धितायाक्षराय प्राजापत्याय सूक्ष्माय सौम्याय पुरुषायाग्राह्येण स्वेन तेजसाऽ. ग्राह्यं ग्रसते वायव्येन तेजसा वायु ग्रसते सौम्येन स्वेन तेजसा सोमं असते । उपसं. हर्ब उपसंहारकारणाय । महागासाय महान्सर्वविश्वरूपो ग्रासः कवलो यस्य स महापासस्तस्मै ।वै स्मर्यमाणाय। नमो नमोऽस्माभिर्देवैः कृतकार्थेः प्राप्तस्वरूपसाक्षात्कारैः क्रियमाणोऽस्तु स्वगुरवे स्वानन्यभूताय जगद्धितत्वादिविशेषणाय नमस्कारः । अभ्यासस्तु स्तुतिप्रसादादाविर्भूतमन्त्रतद्देवतास्वरूपसाक्षात्कारत्वेन कृतकृत्यत्वदर्शनार्थः ॥३॥ इदानी परित्यज्याऽऽख्यायिकास्वरूपं देवैः प्राप्तं जगद्धितमक्षरमस्मान्प्रति दर्शयितुं श्रुतिराह । हृदिस्था हृदयकमलस्था देवता रुद्रस्तुतिपराः । सर्वा निखिलाः । बहिष्ठा देवताः कथं हृदिस्था इत्यत आह । हृदि हृदयकमले प्राण इति शेषः । अस्तु हृदि प्राणः किं तत इत्यत आह । प्राणे , एकस्मिन्देवे सूत्रात्मनि सर्वदेवस्वरूपे हृदयकमलचारिणि प्रतिष्ठिताः सर्वदेवतास्तादात्म्येनावस्थिताः । सन्तु देवताः प्राण(णा)भिन्ना हृदि किं तावतेत्यत आह । हृदि हृदयकमले त्वं प्राणोपाधिकः कर्ता भोक्ता वस्तुतोऽक्षरादि(घ)भिन्नः । असि भवसि । यः प्रसिद्धः परमेश्वर एक एव रुद्रः । १ ग. प्राणाः । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy