SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथर्वशिरउपनिषत् । शान्तिश्च त्वं पुष्टिश्च त्वं तुष्टिश्च त्वं हुतमहुतं विश्वमविश्वं दत्तमदत्तं कृतमकृतं परमपरं परायणं चेति । अपाम सोमममृता अभूमागन्म ज्योतिर विदाम देवान् । किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य । शान्तिश्च वाङ्मनःकायानामाध्यात्मिकाधिभौतिकाधिदैविकदुःखानां निवृत्तिः । चकारात्तकारणं तदात्मा च । त्वम् । उक्तः । पुष्टिश्च मनोवाक्कायानामाध्यात्मिकाधिभौतिकाधिदैविकसुखदुःखभावसंपत्तिः परेणाप्यवगम्यमाना । चकारात्तत्तत्कारणं तदात्मा च त्वम् । तुष्टिश्च पुष्टिरेव स्वेनैवावगम्यमाना तुष्टिः । समानमन्यत् । त्वम् । उक्तः । हुतं सायंप्रातरादिकालेषु यथाशास्त्रमग्नौ प्रक्षिप्तं दधिपयःप्रभृति हविः । अहुतं हुतविपरीतम् । विश्वं सर्वकार्यकारणजातम् । अविश्वं विश्वविपरीतम् । दत्तं बहिर्वेदि दीयमानमन्नोदकभूसुवर्णादि । अदत्तं दत्तविपरीतम् । कृतं पुण्यहेतुकं कर्म । अकृतं पापहेतुकं कर्म । परमुत्कृष्टं कारणादिरूपम् । अपरं परविपरीतम् । परायणं चेति, उत्कृष्टाश्रयरूपमपि सर्वाधाररूपमित्यर्थः । चशब्दात्सर्वानन्यच्च । इत्यनेन प्रकारेण विश्वरूप इत्यन्वयः । इदानीं यथा यज्वनां चमसस्थे भक्षिते सोमे संतोषस्तथाऽस्माकमपि मन्त्रदशिनामित्याहुः । अपाम पानं कृतवन्तोऽविगतवन्त इत्यर्थः । सोमम् , उमया ब्रह्म. विद्यास्वरूपिण्या कात्यायन्या सह वर्तमानः सोमस्तम् । यतः सोममपाम ततोऽमृता मरणहेतुभिरविद्यातत्कार्यतत्संस्कारैर्विवर्जिताः । अभूम संपन्नाः । तद्भवने कारणमाहुः । अगन्मागमाम प्राप्तवन्तः । ज्योतिः स्वयंप्रकाशमानमात्मस्वरूपम् । इदं वयं स्म इति निश्चिता इत्यर्थः । तत्रापि हेतुमाह । अविदाम , अविद्म । देवान् , साधिष्ठातृनिन्द्रियाश्वान् । विषयासक्त्यनासक्तिभ्यां संसृतिमोक्षहेतूनिन्द्रियाणि जीवत इत्यर्थः । इदानीमध्वगा इव पटचरान्परिभूय पलायमाना अगम्यतीरायाः सिन्धोरुत्तरतीरं प्राप्य दक्षिणतीरस्थान्स्वानर्थकारिणः संसारजलधेरुत्तरब्रह्मतीरगा देवाः संसारजलव्यवहितानिन्द्रियाश्वानाक्षिपन्ति । किमाक्षेपे । नूनं निश्चितमर्थनातम् । अस्मान्पीतसोमान्प्राप्तज्योतिष इन्द्रियमर्मज्ञान्प्रति । कृणवत्, कृतवत्करिष्यतीत्यर्थः । अरातिरनर्थकारीन्द्रियगणः । नन्वेषां कामो नामातिबलो राजा स हि पारंगतानपि योषित्पिशाचीमन्त्रस्मरणेनैव नाशयति ततो नैतेऽधिक्षेपणीया इत्यत आह । किमु किंशब्द आक्षेपे । उशब्द उत्कृष्टतिरस्कारे । धूर्तिः, धूतिरनुकूलशत्रुः । विषयसुखदर्शनेन प्रवि. लोक्यास्मांस्त्वगसृङमांसपूयविमूत्रवाहियोषिद्वैतरणीनिपातनेन नाशयेत्कामस्तद्राजो न चास्माकमानन्दात्मस्वरूपरूपव्यतिरेकेण सुखबुद्धिरित्यर्थः । कृशवदित्यनुषङ्गः । अपि च जीवन्त एव समर्था अनर्थकारिणः । ननु मता मृतश्चायं स्वजननीमरणशोकादित्यभिप्रायेणाऽऽहुः । अमृत धूर्तोऽनुकूलशत्रुर्जनानां कामः प्राणान्मुमोच । तत्र हेतुः । मर्त्यस्य ज्योतिरहमस्मीति साक्षात्कारेण मरणधर्मो ज्ञानस्य सत्कार्यस्य धूर्ति For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy