SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शंकरानन्दविरचितदीपिकासमेतान्यच्चामृतं तस्मै वै नमो नमः २९ ॐ यो वै रुद्रः स भगवान्यच्च भूतं भव्यं भविष्यत्तस्मै वै नमो नमः३० ॐ यो वै रुद्रः स भगवान्यच्च विश्वं तस्मै वै नमो नमः ३१ ॐ यो वै रुद्रः स भगवान्यच्च कृत्स्नं तस्मै वै नमो नमः ३२ ॐ यो वै रुद्रः स भगवान्यच्च सर्व तस्मै वै नमो नमः ३३ ॐ यो वै रुद्रः स भगवान्यच्च सत्यं तस्मै वै नमो नमः ३४ ॥२॥ __ ओमादौ मध्ये भूर्भुवः सुवरन्ते शीर्ष जन दोम् । विश्वरूपोऽसि ब्रह्मैकं त्वं द्वित्रिधोमधश्च त्वं परित्यागकारणम् २८ अमृतमवश्यंभाविकर्मफलम् २९ भूतभव्यभविष्यतां कालव्याप्तित्वसाम्यादेकस्मिन्वाक्ये त्रयाणामपि ग्रहणम् । भूतमतीतं भव्यं भवनयोग्यं वर्तमानमित्यर्थः । भविष्यमतीतवर्तमानव्यतिरिक्तकालनम् ३० विश्वं स्थावरजङ्गमात्मकम् ३१ कृत्स्नं महाभूततज्जप्रपञ्चरूपम् ३२ सर्व कल्पितमकल्पितं च जडानडम् ३३ सत्यं सर्वप्रकारप्रधानशून्यं द्वैतभिन्द्रजालाधिष्ठानम् । अमृतादीनां नपुंसकत्वाद्यदिति निर्देशः ३४ समानमन्यद्ब्रह्मपर्यायेण विष्ण्वादीनां सत्यान्तानां चतुस्त्रिंशत्पर्यायाणामपि ॥ २ ॥ एवं चतुस्त्रिंशन्मन्त्रैः कृतस्तुतीनां देवानामयं मन्त्रः प्रतिभात इत्याह ।ॐ अक्षरस्वरूपग्रहणम् । आदौ प्रथमतः । मध्ये, ओंकारानन्तरं शिरोमन्त्रात्पूर्वमेतान्यक्षराणीत्याह । भूर्भुवः सुवः । अक्षरस्वरूपग्रहणम् । अन्ते व्याहृतित्रयानन्तरम् । शीर्ष शिरोमन्त्रः स्वाहेत्येवंरूपः । जनदोम् , जनदेति कर्मोपलक्षणार्थमक्षरत्रयम् । जनं जानि तदुपलक्षितननिमद्वस्तुनातं तद्ददातीति जनदस्तस्य संबोधनं हे जनद । ओमिति प्रणवस्वरूपग्रहणम् । तथाच-ॐ भूर्भुवः सुवः स्वाहा जनदोमिति मन्त्रः संपद्यते । तत्तत्कामज्वरादिके जनदेति पदस्थले मोक्षदैवं धुदेत्याद्यहोऽवगन्तव्यः । ओंकारस्य पर्यायस्याप्यर्थ स्वयमेव वक्ष्यति मन्त्रसारत्वेन । व्याहृतीनां तु नामरूपकात्मकतया विभिन्नं सर्व कार्यकारणभातमर्थः । स्वाहाकारस्य स्वमन्त्राहुत्या संमतान्मन्त्रपराभीष्टार्थाहरणम् । इदानी मन्त्रादावन्ते चोक्तं प्रणवोपाधिकमुररीकृत्याऽऽह । विश्वरूपश्चराचररूपः । असि भवसि त्वम् । ब्रह्मैकं सर्वस्मादधिकं देशकालवस्तुपरिच्छेदशून्यं जगत्कारणं त्वं प्रणवप्रतिपाद्यो रुद्रः । द्वित्रिया द्विधा त्रिधा च द्विप्रकारः स्वाहाकाररूपः प्रकृति. पुरुषात्मना । व्याहृतित्रयरूपो नामरूपकर्मात्मना । ऊर्ध्वम् । उपरिष्टाजनदेति पदात्मकः सर्वकामप्रदः । अधश्च सर्वमन्त्राक्षराणामधस्ताद्वितीयोंकाररूपः । आदावन्ते च ब्रह्मैकं प्रणवप्रतिपाद्यमित्यर्थः । चकारादुक्तवक्ष्यमाणमन्त्ररूपश्च । इदानी सर्वात्मकत्व. मनुशास्य रुद्राभिन्नस्य शान्त्याद्यर्थे जपार्थमाह । त्वम् , प्रणवात्मैकं ब्रह्म विश्वरूपः । ५ क. ख. विष्यं तस्मै । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy