________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४१२
रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः ] अथ न यद्यश्नात्यमन्ताऽश्रोताऽस्मष्टाऽद्रष्टाऽवक्ताऽ
घ्राताऽरसयिता भवति माणांश्चोत्सृजतीत्येवं ह्याह । अथेति । अथैतत्प्रपञ्च्यते, यद्ययं नानाति नान्नमुपजीवति तदाऽमन्ता मननासमर्थो भवतीत्यन्वयः । एवमश्रोता भवतीत्यादि योज्यम् । न केवलं मननाद्यशक्तिमाअमेवानश्नतः किंतु जीवनमपि दुर्लभमित्याह-प्राणांश्चोत्सृजति परित्यजति म्रियत इत्येवं ह्याह श्रुतिः । तथा च च्छान्दोग्ये 'अन्नं वाव बलाद्भूयस्तस्माद्यद्यपि दशरात्री श्रीयाद्या ह जीवेदथवाऽद्रष्टाऽश्नोता' (अ० ७) इत्यादि । अन्नाभावे शक्तिजीवनयोरभाव इति व्यतिरेकमुक्त्वा तत्रैवान्वयमाह
अथ यदि खल्वनाति प्राणसमृद्धो भूत्वा मन्ता भवति श्रोता भवति स्पष्टा भवति वक्ता भवति
रसयिता भवति घ्राता भवति द्रष्टा भवतीति । अथेति । यद्यश्नाति तदा खलु प्राणसमृद्धः प्राणेन बलेन समृद्ध उपचितो भूत्वा मन्ता भवतीत्यादि स्पष्टम् ।। अत्रैव श्रुत्यन्तरमुदाहरति
एवं ह्याह-अन्नाद्वै प्रजाः प्रजायन्ते याः काश्चित्पृथिवी
श्रिताः। अतोऽन्नेनैव जीवन्त्यथैतदपियन्त्यन्ततः ॥ ११ ॥ एवं ह्याहेति । अन्नाद्रेतोबीजरूपपरिणताद्वै प्रजाः स्थावरजङ्गमात्मिकाः प्रजायन्त उत्पद्यन्ते याः काश्चिदविशेषिताः पृथिवीश्रिताः पृथिवीमाश्रिता अत उत्पत्त्यनन्तरमप्यनेनैव स्वस्खजात्युचितेनादनीयेनैव जीवन्ति प्राणान्धारयन्ति । अथ जीवितक्षयेऽन्ततोऽन्ते शरीरावसानेऽप्येतदन्नमेवापियन्त्यन्नात्मिकायां पृथिव्यां लीयन्त इत्यर्थः ॥ ११ ॥ पुनरप्यन्नस्तुतिं करोति तस्य वक्ष्यमाणात्मदृष्ट्यहत्वाय
अथान्यत्राप्युक्तं सर्वाणि ह वा इमानि भूतान्यहरहः प्रपतन्त्यन्नमभिजिघृक्षमाणानि सूर्यो रश्मिभिराददात्यानं तेनासौ तपत्यनेनाभिषिक्ताः पंचन्तीमे प्राणा अग्निर्वा
अन्ननाभिज्वलत्यनकामेनेदं प्रकल्पितं ब्रह्मणा । अथान्यत्राप्युक्तं० ब्रह्मणेति । ह वा इति प्रसिद्धार्थौ निपातौ । सर्वाणीमानि भूतानि पशुपक्ष्यादिपिपीलिकान्तान्यन्नमभिजिघृक्षमाणान्यहरहर्नित्यं प्रपतन्तीतस्ततः परिभ्रमन्तीति प्रसिद्धमेतदित्यर्थः । किंच सूर्योऽपि रश्मिभिः किरणैरन्नं भौमं रसरूपमाद
१ क. 'वं प्राह । २ क. जप । ३ क. प्राणं धार'। ४ क. 'त्यनेना। ५ क. पतन्ती । ६ ग. 'बेनोज्ज्वल । ७ क. यो र।
For Private And Personal