________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ६ षष्ठः प्रपाठकः ]
मैत्र्युपनिषत् ।
वचनात्पुरुष इति । भुङ्क इति वचनादित्यन्वयः । एवमन्नान्नादविदं प्रशंसन्नस्मिन्दर्शने पुंसः प्रवृत्तिमुपनयति
यो हैवं वेद संन्यासी योगी चाऽऽत्मयाजी चेति ।
४११
यो हैवमिति । यो ह कश्विदेवमुक्तप्रकारेणान्नान्नादविभागं वेद स इत्यध्याहार्यम् । स संन्यास्यकर्त्रात्मदर्शी न केवलं कर्मत्यागी संन्यासी किंत्वयमेवेति विद्या स्तूयते । योगी चाष्टाङ्गयोगनिरतोऽप्ययमेव न केवलं गुहासु निविष्टः । आत्मयाज्यात्मसंस्कारार्थं यो यजते स आत्मयाजी । तथा च शतपथी श्रुतिः -- “ स ह वा आत्मयाजी यो वेदेदं मेऽनेनाङ्गं संस्क्रियत इदं मेऽनेनाङ्गमुपधीयते " इति । आत्मयाजी चायमेव न यज्ञमात्रनिरत इत्यर्थः ।
को वा संन्यासी योगी चाऽऽत्मयाजी चेति प्रेसिद्धो यदात्मनाऽयं विद्वान्स्तूयत इत्यपेक्षायां तत्स्वरूपमाह—
अथ यद्वन्न कश्चिच्छून्यागारे कामिन्यः प्रविष्टाः स्पृशतीन्द्रियार्थास्तद्वद्यो न स्पृशति प्रविष्टान्संन्यासी योगी चाssत्मयाजी चेति ।। १० ।।
अथ यद्वदिति । अथेदं निदर्शनमुच्यते । शून्यागारे जनशून्यान्तर्भवने प्रविष्टाः कामिन्यः कामिनीः कामातुराः स्त्रीः कश्चिदतिधीरो न स्पृशति यद्वत्किंतु ताः परिहरत्येव तद्वद्यो विद्वानिन्द्रियार्थान्प्रविष्टान्दैवादागत्योपस्थितान्न स्पृशत्यनुरागेण न स्वी करोति स एव संन्यासी योगी चाऽऽत्मयाजी चेति व्याख्यातम् । इतिशब्दः प्रदर्शनार्थः । विषयनिस्पृहाः संन्यास्यादिशब्दवाच्या इत्यर्थः ।
तदेवं दशभिरनुवाकैरध्यात्ममधिदैवं च प्राणादित्योपाधिद्वाराऽऽत्मोपासनं सेतिकर्तव्यताक्रममुक्तिफलमुपदिश्य तत्परिसमाप्येदानीं पूर्वप्रकृतस्यैव प्रत्यब्रह्मणश्विदात्मनोऽम्युदयफल कमनेकविधमुपासनभेदं वक्तुं प्रकरणान्तरं प्रवर्तते । तत्रान्नाधीनत्वात्सर्वप्राणिस्थितेर्ब्रह्मदृष्ट्याऽन्नोपासनं विधातुं तन्महिमानमाह
परं वा एतदात्मनो रूपं यदन्नमन्नमयो ह्ययं प्राणः ।
परं वा एतदित्यादिना । परमुत्कृष्टं वै प्रसिद्धमेतद्वक्ष्यमाणमात्मनः परमात्मनो रूपं मूर्तिविशेषः । किं तद्यदन्नं सर्वप्राणिजीवनं प्रसिद्धमोदनादिरूपम् । कथमस्य परत्वं हि यस्मादयं प्राणो मुख्यप्राणप्रधानोऽयं संघातोऽन्नमयोऽन्नैजीवन इति यावत् ।
For Private And Personal
एतदेवान्वयव्यतिरेकाभ्यामुपपादयति
१ ग. के । २ ग. प्रसिद्धा । ३ क. व्याख्यानम् । ४ क. 'ताकं क । ५ क. 'नविकारोऽनजी' |