SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४१० रामतीर्थविरचितदीपिकासमेता- [षष्ठः प्रपाठकः ] - प्रपञ्चितमर्थमुपसंहरति एवं व्यक्तमन्नमव्यक्तमन्नमस्य निर्गुणो भोक्ता भोकृत्वाच्चैतन्यं प्रसिद्धं तस्य । एवमिति । एवमुक्तप्रकारेण व्यक्तमन्नं सिद्ध व्यक्तरूपान्नकारणत्वादव्यक्तस्य व्यक्तवदेवाव्यक्तमप्यन्नमनुमेयमित्यर्थः । अस्य व्यक्ताव्यक्तरूपस्यान्नस्य निर्गुणो भोक्ता निर्विकार आत्मा भोक्तेत्यर्थः । अन्तःकरणगतचिदाभासाविवेकाझोक्केव प्रतीयमानोऽपि न स्वभावतो भोक्ता कूटस्थ एव सदेति भावः । तस्याऽऽत्मनो भोक्तृत्वादचेतनस्य सर्वस्य कार्यकारणात्मकस्य व्यक्ताव्यक्तवाच्यस्य संनिधिसत्तामात्रेण स्वचैतन्याभासेन व्याप्तत्वाच्चैतन्यं चेतनत्वं प्रसिद्धं प्रकर्षेण सिद्धं ज्ञातं भवतीत्यर्थः । - इदानीमन्नात्रोरुक्तयोः प्रकृतिपुरुषयोः सोमत्वमग्नित्वं च ध्यायेदिति गुणान्तरमुपदिशति____ यथाऽग्नि देवानामन्नादः सोमोऽन्नमग्निनैवानमित्येवंवित् । यथाऽग्निर्वे देवानामित्यादिना।देवानां मध्येऽग्निरन्नादोऽन्नस्यात्ता वै प्रसिद्धो यथा तथा सोमोऽन्नमदनीयं प्रसिद्ध इति योजना । तथाच श्रुत्यन्तरम् --"अथ यत्किचेदमाई तद्रेतसोऽसृजत तदु सोम एतावद्वा इदं सर्वमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः" (बृहदा० अ० ३) इति । तथा चैवंविद्यदा यद्येनाद्यते सोऽग्निर्यदद्यते स सोम एवेत्यन्नान्नादरूपमग्नीषोमात्मकं जगदित्येवंविदग्निनैवान्यात्मनैव सोमरूपमन्नमत्ति । अतोऽन्नदोषैरग्निवन्न लिप्यत इत्यभिप्रायः । अन्नमित्येवमिति पाठः प्रामादिकः । यद्ययं पाठः सत्यस्तदेत्थं योजना । अग्निरन्नादः सोमोऽन्नमिति यथा प्रसिद्धं श्रुत्यन्तरे तथैवाग्निनैव सोमरूपमन्नमद्यते न मयेत्येवंविदन्नदोषैर्न लिप्यत इति । आधिभौतिकान्नान्नादयोरुक्तं विशेषमाध्यात्मिकयोरपि तयोर्दर्शयति सोमसंज्ञोऽयं भूतात्माऽग्निसंज्ञोऽप्यव्यक्तमुखा इति । सोमेति । अयं भूतात्मा प्राकृतः केवलः सोमसंज्ञोऽन्नमित्यर्थः । अव्यक्तं प्रधान मुखं भोक्तृत्वादिप्रवृत्तिद्वारं यस्य स चिदात्माऽव्यक्तमुखस्तेन व्याप्तत्वाद्भूतात्माऽप्यव्यक्तमुखः सन्नग्निसंज्ञोऽपि भवति । तथा चायमर्थः। चिदाभासव्याप्ततया चिदात्माभेदेनाव्यक्तमुखतया बाह्यविषयभोक्तृत्वेनाग्निसंज्ञोऽप्ययं भूतात्मा चिदात्मापेक्षया सोमसंज्ञोऽन्नमवेति प्रकृत्यनुगतश्चिदात्माऽत्ताऽग्निः प्राकृतो भूतसंघातोऽन्नमिति चिन्तयेदिति । एवमुक्तविभागे प्रमाणमाह _वचनात्पुरुषो हव्यक्तमुखेन त्रिगुणं भुना इति । क. क्तशब्दवा । २ क. नानादत्वोक्त । ३ क. मिति । ४ ग. 'त्यत्रानरू । ५ क. कृत। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy