________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[६ षष्ठः प्रपाठकः] मैन्युपनिषत् । ध्यानमित्यर्थः । एवं ध्यायतः पुंसो यो मनःपूतिर्मनसो दुर्गन्धो दुर्वासनेत्येतत् । तं मनःपूतिमुच्छिष्टोपहतमित्यनेन वक्ष्यमाणेन मन्त्रेण तत्तस्मिन्काले पावयेत्पवित्रयेत् । एतमन्त्राभिमन्त्रितान्नप्राशनेन प्राणाग्निहोत्रविधिना च शोधयेदित्यर्थः ।
मन्त्रं पठति-उच्छिष्टोच्छिष्टोपहतं यच्च पापेन दत्तं मृतसूतकाद्वा वसोः पवित्रमग्निः सवितुश्च
रश्मयः पुनन्त्वनं मम दुष्कृतं च यदन्यत् । मन्त्रं पठति यदन्यदिति । अन्योच्छिष्टं स्वोच्छिष्टं चोच्छिष्टोच्छिष्टमुच्यते तेनोपहतं यद्वोच्छिष्टं चोच्छिष्टोपहतं चेत्युच्छिष्टोच्छिष्टोपहतमन्नं भोज्यम् । पापेन पापात्मना पतितेन दत्तं यच्चान्नं मृतसूतकाद्वोपहतं मृतसूतकिस्पृष्टं तत्स्वामिकं वा यदन्नमित्यर्थः । वसोर्वसुनाम्नो देवस्य पवित्रं पावयितृ । अग्निवैश्वानरः सवितुश्च रश्मयो मम मद्भोज्यं तदन्नं पुनन्तु पवित्रयन्तु यदन्यच्च मम दुष्कृतं पापाचरणं तच्च पुनन्त्वित्यर्थः । अनेन मन्त्रेण स्वभोज्यमन्नमभिमन्य पश्चात्
अद्भिः पुरस्तात्परिदधाति । अद्भिः दधातीति । पुरस्तात्प्राणाहुत्यारम्भात्पूर्व याः स्मृतिप्राप्ता आपोशनाङ्गभूता आपस्ताभिः परिदधाति प्राणादित्यरूपस्य स्वात्मनः परिधानं वस्त्राच्छादनमिदं क्रियत इति ताश्चिन्तयेदित्यर्थः । अनन्तरकर्तव्यं प्राणाग्निहोत्रं मन्त्रविनियोगेन विधत्ते
प्राणाय स्वाहाऽपानाय स्वाहा व्यानाय स्वाहा समा
नाय स्वाहोदानाय स्वाहेति पञ्चभिरभिजुहोति । प्राणायः अभिजुहोतीति । प्राणाय स्वाहेत्यादिभिः पञ्चभिर्मन्त्रैर्यथापाठक्रम भोज्यानरूपं सिद्धं द्रव्यमादायाऽऽभिमुख्येनाऽऽस्याग्नौ जुहोति जुहुयादित्यर्थः ।
अथावशिष्टं यतवागश्नात्यतोऽद्भिर्भूय एवोपरिशत्परिदधात्याचान्तो भूत्वाऽऽत्मेज्यानः प्राणोऽ
निर्विश्वोऽसीति च द्वाभ्यामात्मानमभिध्यायेत् । अथावशिष्ट अभिध्यायेदिति । अथ पञ्चप्राणाहुत्यनन्तरमवशिष्टं तृप्तिपर्यन्तमन्नं यतवाङ्मौनी सन्ननाति । यदवशिष्टमश्नाति तन्मौनी सन्निति मौनमत्र विधीयते नाशनं तस्य निमित्तान्तरत एव प्राप्तत्वादित्यर्थः । अतोऽवशिष्ट सर्वान्नभोजनानन्तरमद्भित्तरापोशनाङ्गभूताभिर्भूय एव पुनरपि पूर्ववदुपरिष्टादुपरिभागे परिदधाति तास्व
१ ग. 'पोशाना" । २ ग. 'पोशाना । ३ क. रिद ।
For Private And Personal