________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[१ षष्ठः प्रपाठकः] मैञ्युपनिषत् । श्रुतिस्मृतिपुराणेषु स एष हि खलु यः पूर्वानुवाकान्ते निर्दिष्ट एष एव नान्य इत्यर्थः । तत्र रुद्रान्तस्तमःप्रधानमायोपाधिकः । हंसान्तो रजःप्रधानमायोधिकः । शास्ता विष्णुनारायण इति शुद्धसत्त्वप्रधानमायोपाधिकः । जगत्संहारसृष्टिस्थितिहेतुतयाऽभिव्यक्तविशेषास्तत्तत्संज्ञाभाजो ये जायन्ते ते सर्वेऽप्ययमात्मेत्यभिप्रायः । अयमेवार्कोऽर्यः पूज्यः सर्वकर्मतत्फलाश्रयत्वात् । तथाच श्रुतिः— 'एष वा अश्वमेधो य एष तपति तस्य संवत्सर आत्माऽयमग्निरकः' (बृहदा० अ० ३) इति । सवितृशब्दो व्याख्यातः । अयमेवाऽऽत्मा पृथिव्यादिरूपेण धातो सर्वस्य धारयिता । विधाता पित्रा. दिरूपेण पुत्रादीनां निर्माता । सम्राट्सार्वभौमो राजा । इन्द्रः स्वराट्म्वर्गाधिपतिः । इन्दुश्चन्द्रमाः प्रसिद्धः । एते सर्वेऽप्येष एवाऽऽत्मेति ।
किं च न केवलमेतावत्- य एष तपत्यग्निरिवाग्निना पिहितः सहस्राक्षेण हिरण्मयेनाण्डेन। .
य एष हिरण्मयेनाण्डेनेति । यस्तपति जगदभितपति सविता सोऽप्येष एवेति योजना । कथं तर्हि स आत्मरूपेण न विभाव्यत इत्यत आह-अग्निरिवेति । यथा महता ज्वालाजटिलेनाग्निनाऽग्निर्दीपो मन्दः पिहित आच्छन्नो भवत्येवं सहस्राक्षेणानेकच्छिद्रवता हिरण्मयेन तेजोमयेनाण्डेन मण्डलात्मकेन ब्रह्माण्डेन वा पिहित आच्छादितोऽतो नाऽऽत्मरूपेण दृश्यत इत्यर्थः । तथाच मत्रवर्णः-'हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्' इति । .' यस्मादयमात्मैकोऽप्येकरूपोऽप्युपाधिभिरनेकोऽनेकरूप इव च विभाव्यमान उपाध्यावृतनिजस्वरूपस्तस्मान्मुमुक्षुभिरावरणनिराकरणेन तदर्शने यत्न आस्थेय इत्युपदिशति
एष वाव जिज्ञासितव्योऽन्वेष्टव्यः सर्वभूतेभ्योऽभयं दत्त्वाऽरण्यं गत्वाऽथ बहिः कृत्वेन्द्रियार्थान्स्वाच्छरीरादुपलभेतैनमिति । एष वा० उपलभेतैनमितीति । एष एवाध्यात्माधिदैवरूपेण विभाव्यमान आत्मा किंखरूप इति जिज्ञासितव्यो ज्ञातुमेष्टव्यः, तत्तत्त्वज्ञानं संपादयितुं गुरूपसत्तिः कार्येत्यर्थः । विज्ञानसंपादनप्रकारमाह-अन्वेष्टव्यो गुरूपदिष्टवाक्यमर्यादामाश्रित्यान्वेषणेन मननेनावधारणीय इत्यर्थः । तत्र वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः' इति श्रुतिमाश्रित्य संन्याप्तमात्मज्ञानाङ्गमुपदिशति-सर्वभूतेभ्य इति । सर्वभू. ताभयदानं संन्यासः स च कर्मपरित्यागलक्षणस्तं कृत्वेत्यर्थः । संन्यस्य गुरुभ्यः सब. ह्मचारिभ्यश्च श्रवणमनने संपाद्यानन्तर मरण्यं विजनं देशं मनःप्रसादकरं गत्वाऽथ तदेन्द्रियान्विाह्यान्दूरतः कृत्वाऽन्तःशरीर एवाऽऽत्मानमन्विष्य निदिध्यासनं कुर्वन्स्वाच्छ .
१ ग. र्वत । २ क. 'ता धा । ३ क. तत्त्व।
For Private And Personal