SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४०२ रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः ] कथमेतदवगम्यत इति तत्राऽऽह सर्वमात्मा जानीतेति सर्वमात्मा जानीतेतीति । सर्वं सर्वेन्द्रियद्वारं व्यवहारजातमात्मैक एव जानीते स्वात्मैकनिष्ठत्वेन प्रत्यभिजानाति । इति हेतोर्न परमार्थो भेद इत्यर्थः । तथाच श्रुत्यन्तरम्-'आत्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति' इत्युपाध्युपरागपरित्यागेन सर्वोपाध्युपलक्षितमेकमात्मानं निरुपपदेनाऽऽत्मशब्देन निर्दिशति । लोके च यश्चक्षुषा रूपमैद्राक्षं सोऽहमिदानी रसनेन रसमनुभवामीति प्रत्यभिज्ञानुभवः प्रसिद्धोऽतो नाऽऽत्मभेदशङ्केति भावः। उपाध्यन्वये भेददर्शनं व्यपदेशभेदं चोपपाद्य तद्व्यतिरेके तद्व्यतिरेकमुपपादयति यत्राद्वैतीभूतं विज्ञानं कार्यकारणकर्मनिर्मुक्तं निर्वचनमनौपम्यं निरुपाख्यं किं तदवाच्यम् ॥७॥ यत्राद्वैतीभूतमिति । यत्र यस्यामवस्थायां सुषुप्त्यादौ सर्वोपाध्युपरमादद्वैतीभूत विज्ञानं तत्रेत्यध्याहारस्तदा कार्यकारणकर्मभिर्विषयकरणक्रियाभिरवेच्छेदकैर्निर्मुक्तमसं स्पृष्टमत एव निर्वचनं विशेषसंज्ञावचनशून्यमनुपममेवानौपम्यमुपमारहितं स्वतो निर्विशेषमित्यर्थः । अत एव निरुपाख्यमप्रमेयमिदं तदित्युल्लेखायोग्यमित्यर्थः । किमेवं निषे. धमुखेनाच्यत इदं तदिति कस्मान्नोच्यत इति शङ्कते-किं तदिति । अशक्यं तथा वक्तुमित्युत्तरमाह-अवाच्यमिति । सर्ववाग्व्यापारोपरमे यदवशिष्यते सर्वोपरमसाक्षित्वेन तदद्वैतं विज्ञानं स्वाभाविकमात्मरूपमिति भावः । तथा च बृहदारण्यके-'यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति' इत्यादिना द्वैतदर्शनस्याऽऽभासतामुक्त्वा 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इत्यादिनाऽद्वैतमात्मतत्त्वमुपपादयति श्रुतिः। तस्मादनामरूपक्रियस्याऽऽत्मनो नामरूपक्रिया अविद्याकल्पितप्रपञ्चोपाधिनिबन्धना एवेति परमार्थ इति ॥ ७ ॥ यद्यप्येवं शारीरस्याऽऽत्मनों' न भेदः पारमार्थिकस्तथाऽप्यधिदैवादादित्यात्मन ईश्वरादयं भिन्न इति शङ्कां वारयन्नस्यैव ब्रह्मादयोऽपि विभूतय इत्येतमेव मही करोति एष हि खल्वात्मेशानः शंभुर्भवो रुद्रः प्रजापतिर्विश्वसृ. ग्घिरण्यगर्भः सत्यं प्राणो हंसः शास्ता विष्णु राय. णोऽर्कः सविता धाता विधाता सम्राडिन्द्र इन्दुरिति । एष हि खल्वात्मेशानः० इन्दुरितीति । य ईशानादिभिः शब्दैर्व्यपदिश्यते . १ क. मार्थतो में। २ क. महमद्रा' । ३ क. "भवसिद्धाऽतो। ४ क. 'वभेद । ५ क. 'नोऽभे। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy