________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४००
रामतीर्थविरचितदीपिका समेता - [ ६ षष्ठः प्रपाठकः ]
यदुक्तं मन्त्रव्याख्यानेऽसौ वा आदित्यः सविता सविता वै देवो योऽस्य भर्गाख्य इति तत्राऽऽदित्यसवितृ भर्गशब्दा न स्पष्टार्था इति तान्व्याख्यातुमारभमाणोऽतिगहनार्थत्वाद्भर्गशब्दार्थं तावदाह -
अथ भर्ग इति यो ह वा अमुष्पिम्नादित्ये निहितस्तारकोऽक्षिणि वैष भर्गाख्यः ।
Acharya Shri Kailashsagarsuri Gyanmandir
अथ भर्ग इत्यादिना । अथ पदविशेषार्थ उच्यते भर्ग इति कोऽर्थोऽयमेव यो ह य एव वै 'य आदित्ये तिष्ठन् ' 'यश्चक्षुषि तिष्ठन्' इति च श्रुत्यन्तरप्रसिद्धोऽमुष्मिन्न - दित्ये मण्डलात्मनि निहितः संनिहितस्तथाऽक्षिणि चक्षुर्मण्डले वा यस्तारकः कृष्णतारकोपलक्षितोऽन्तर्यामी देव एष भर्गाख्य इति ।
भर्गत्वमस्य कथमित्यपेक्षायां तन्नाम निर्वक्तिभाभिर्गतिरस्य हीति भर्गः ।
भाभिरित्यादिना । भाभिः किरणैरधिष्ठानधर्मैरस्य गतिर्गमनं विषयव्याप्तिरस्येति व्युत्पत्तेर्भर्ग इत्येकं निर्वचनमित्यर्थः ।
निर्वचनान्तरमाह
भर्जयतीति वैष भर्ग इति रुद्रो ब्रह्मवादिनः ।
भर्जयतीति । वाऽथवा भर्जयति जगत्संहरतीति रुद्रो भर्ग इति ब्रह्मवादिन भाहुरिति योजना |
इदानीं भकाररेफगकाराणां प्रत्येक निर्वचनं ब्रुवन्नस्य भर्गाख्यां मही करोतिअथ भ इति भासयत मालोकान् इति रञ्जयतीमानि भूतानि ग इति गच्छन्त्यस्मिन्नागच्छन्त्यस्मादिमाः प्रजास्तस्माद्भरत्वाद्भर्गः । अथ भ इत्यादिना । भासयति तेजोमण्डलान्तर्गतचित्प्रकाशेनेमान्सर्वानेव लोकानिति भ इत्युच्यत इत्यर्थः । इमानि भूतानि स्थावरजङ्गमात्मकानि प्राणानुगतचिदानन्दात्मना रञ्जयति प्रीणयति सुखासक्तं करोतीति र उच्यत इत्यर्थः । अस्मिन्सर्वकारणात्मनि सुषुप्तिप्रलययोः सर्वा इमाः प्रजा गच्छन्ति लयं प्राप्नुवन्ति तथा प्रबोधथ्योरस्मादेवाऽऽगच्छन्त्याविर्भवन्तीति ग इत्युच्यत इत्यर्थः । तस्माद्भासनाद्रञ्जनाद्गमनाच भरगत्वाद्भर्ग इति सर्वात्मोच्यत इत्यर्थः ।
इदानीमादित्यादिनामनिर्वचनं कुर्वस्तत्पर्यायशब्दानपि कांश्चिन्निर्वक्ति— शश्वत्सूयमानात्सूर्यः सवनात्सविताऽऽदानादादित्यः पवनात्पावनोsssपोऽप्यायनादित्येवं बाह I
१ ग. भर्गा । २ ग. भर्गा । ३ क. 'स्मिन्नित्याग । ४क. 'दिति वेमाः । ५ क. मानवात् । ६ ग. थापो प्या' ।
For Private And Personal