________________
Shri Mahavir Jain Aradhana Kendra
[६ षष्ठः प्रपाठकः ]
व्याहृतिगुणविधिमुपसंहरति
www.kobatirth.org
मैत्र्युपनिषत् ।
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
३९९
तस्मादेषोपासीत || ६ |
तस्मादिति । एषा व्याहृत्यात्मिका तनूरुक्ता तस्मादेतां तथैवोपासीतेति योजना ॥ ६ ॥
इदानीं पूर्वं प्रतिज्ञातां सावित्रीशरीरतां चास्योपपादयितुमुत्तरानुवाक आरम्यतेतत्सवितुर्वरेण्यमित्यसौ वा आदित्यः सविता सवा एवं प्रवरणीय आत्मकामेनेत्याहुर्ब्रह्मवादिनोऽथ भर्गो देवस्य धीमहीति सविता वै देवस्ततो योऽस्य भर्गाख्यस्तं चिन्तयामीत्याहुर्ब्रह्मवादिनोऽथ धियो यो नः प्रचोदयादिति बुद्धयो वै धियस्ता योऽस्माकं प्रचोदयादित्याद्दुर्ब्रह्मवादिनः । तत्सवितु० ब्रह्मवादिन इति । आदौ मन्त्रप्रतीकान्यादाय व्याचष्टे । तत्सवितुर्वरेण्यमिति प्रथमः पादस्तस्यार्थोऽसौ वा इत्यादिनोच्यते । तत्र सवितुस्तत्स्वरूपं वरेण्यमित्यन्वये सवितुरिति षष्ठी पुरुषस्य चैतन्यमितिवदविवक्षितस्वार्थेति मत्वा सवितृपदामाह - असौ वा इति । असौ वै प्रसिद्धो जगदवभासकत्वेन विभाव्यमानः सविता सवितुरिति मन्त्रपदेनोक्त इत्यर्थः । वरेण्यशब्दार्थमाह स वा इति । स वै स एव सवितैवं यथोक्तात्मस्वरूपेण प्रवरणीयः प्रकर्षेण तदेकनिष्ठतया प्रार्थनीयस्तदात्मभावना कार्येति यावत् । केनाऽऽत्मकामेन काम्यत इति काम आत्मैव कामः प्राप्यो यस्य स आत्मकामस्तेनाऽऽत्मनः स्वाभाविक स्वरूपाविर्भावकामेनेति यावत् । इत्याहुर्ब्रह्मवादिनो ब्रह्मवदनशीला वेदार्थविद इत्यर्थः । द्वितीयपादप्रतीकारम्भार्थोऽथशब्दः । भर्गो देवस्य धीमहीति प्रतीकग्रहणम् । तत्र देवपदस्यार्थमाह - सविता वै देवः सवितैष देवशब्दार्थः । स एव द्योतनाद्देव उच्यते । अत्रापि षष्ठयर्थो न विवक्षितः । ततस्तस्माद्यो - तनस्वभावत्वाद्योऽस्य सवितुर्भर्गाख्यो व्याख्यास्यमानभर्गशब्देवाच्य आत्मा तं चिन्तयामीति धीमहीत्यस्यार्थमाद्दुर्ब्रह्मवादिन इति पूर्ववत् । चिन्तयामीत्येकवचनमर्थतः पर्यायनिर्देशनपरं न तु धीमहीत्युक्तबहुवचनस्यैकवचनान्तत्वेनोहप्रदर्शनार्थम् । 'वयं स्याम पतयो रयीणाम्' इतिवत्कर्त्रेक्येऽपि मन्त्रेषु बहुवचनप्रयोगस्य साधुत्वाच्चक्षुरादिकरणोपाधिभेदेनैकास्मिन्नपि बहुत्वसंभवाद्वेति द्रष्टव्यम् । अथ तृतीयपादग्रहो धियो यो नः प्रचोदयादिति । धीशब्दार्थः प्रसिद्ध एवेत्याह- बुद्धयो वै धिय इति । अन्तःकरणवृत्तय इत्यर्थः । ता बुद्धीरस्माकमस्मदीया यः प्रचोदयात्प्रकृष्टं प्रेरयत्वित्याशिषि लिङ् । इत्याहुरित्युक्तार्थम् । तथा चेत्थं मन्त्रयोजना, यो देवः सविता तस्य सवितुर्देवस्य तद्वरेण्यं भर्गाख्यं वयं धीमहि स नो धियो धीः प्रचोदयादिति ।
1
१ क. 'ख्य आत्मा तं चि । २ क. 'ब्दभाग्य आ । ३ क. 'वेनेह |