________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रामतीर्थविरचितदीपिकासमेता - [६ षष्ठः प्रपाठकः ]
३९८
सर्वाङ्गेषु चक्षुषः प्राधान्यमुपपादयन्नादित्यं मही करोति चक्षुरायत्ता हि पुरुषस्य महती मात्रा चक्षुषा ह्ययं मात्राश्चरति
चक्षुरायत्ता हीत्यादिना । पुरुषस्य व्यवहर्तुर्महत्यपरिमिता मात्रा मीयते ज्ञायत इति मात्रा विषयो मितिरेव वा मात्रा विषयसिद्धिर्हि निश्चितं चक्षुरायत्ता चक्षुरधीना । उक्तमर्थं लोकप्रसिद्ध्योपपादयति । हि यस्मादयं पुरुषश्चक्षुषा मात्रा विषयांश्चरति दूरस्थानपि निम्नोन्नतसमविषमदेशानपि प्रतिपद्यतेऽतश्चक्षुरायत्ता पुरुषस्य महती मात्रेत्यर्थः ।
प्रजापतेर्मुख्याङ्गत्वेनाऽऽदित्यं महीकृत्येदानीं साक्षादेव प्रजापत्यात्मतां संपा
दयति
I
सत्यं वै चक्षुरक्षिण्यवस्थितो हि पुरुषः सर्वार्थेषु चरति । सत्यमिति । वै प्रसिद्धं चक्षुः सत्यं चक्षुर्दृष्टस्य सत्यत्वप्रसिद्धेः प्रजापतिरपि सत्यं सत्पदात्मकत्रैलोक्यशरीरत्वादतश्चक्षुरादित्यः सत्यमित्युक्ते सत्यात्मा प्रजापतिरादित्य इत्युक्तं भवतीति भावः । चक्षुषः सत्यत्वमुपपादयति — अक्षिणीति । चरत्यविसंवादितया हि प्रसिद्धमेतदित्यर्थः ।
उपसंहरति
एतस्माद्भूर्भुवः स्वरित्युपासीतानेन हि प्रजापतिर्विश्वात्मा विश्वचक्षुरिवोपासितो भवतीत्येवं ह्याह ।
एतस्मादिति । उक्ताद्धेतोरित्यर्थः । अनेन हि व्याहृत्यात्मतयाऽऽदित्यात्मोपासनेन विश्वचक्षुः सूर्य इव विश्वात्मा प्रजापतिरुपासितो भवतीत्येवं ह्याह क्वचिच्छ्रुत्यन्तरमिति शेषः ।
किमाहेति तदाह
एषा वै प्रजापतेर्विश्वभूत्तनूः ।
एषेति । एष वै पूर्वोक्ता सूर्यरूपा प्रजापतेर्ब्रह्मणो विश्वं विभर्तीति विश्ववत्तनूः शरीरम् ।
कथमस्या विश्वभृत्त्वमिति तदाह
एतस्यामिदं सर्वमन्तर्हितमस्मिंश्च सर्वस्मिन्नेषाऽन्तर्हितेति ।
एतस्यामिति । एतस्यां तनाविदं सर्वं दृश्यमन्तर्हितं गूढम् । आदित्यप्रकाशाच्छादितमेव सर्वमित्यर्थः । तथाऽस्मिंश्व सर्वस्मिन्दृश्ये विषय एषा तनूरन्तर्हिता तत्तदर्थप्र काशकत्वेन तत्तदात्मतामापन्ना सती प्राकृतैः परिपूर्णा न दृश्यत इत्यः । यद्वा प्राणरूपेण सर्वस्मिन्नेषाऽन्तर्हितेत्यर्थः ।
For Private And Personal