SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [१ षष्ठः प्रपाठकः] मैयुपनिषत् । इत्यसौ वा आदित्य उद्गीथ एप प्रणवा इत्येवं याहोद्गीथं प्रणवाख्यं प्रणेतारं भारूपं विगतनिद्रं विजरं विमृत्यु त्रिपदं व्यक्षरं पुनः पञ्चधा ज्ञेयं निहितं गुहायामित्येवं ह्याह । इत्यसौ वा आदित्य उद्गीथ उद्गीथावयव ओंकार इत्यर्थः । एष आदित्य एव प्रणवः शस्त्राङ्गभूत ओंकार इत्येवं ह्याह च्छान्दोग्यश्रुतिरित्यर्थः । एवं स्तुत्या महीकृतमादित्यं पुनर्विशिनष्टि गुणान्तरविशिष्टतया ध्यानार्थमुद्गीथमित्यादिना । छन्दोगानामुद्गीथभक्त्यवयवत्वेनोद्गीथं बढचानां शस्त्रान्तर्गतप्रणवाख्यं प्रणेतारं प्रकर्षेण तत्तत्कमणां प्रवर्तयितारमत एव प्रणवाख्यमित्यर्थः । भाः प्रकाशो रूपं स्वरूपं यस्य स भारूपस्तम् । विगतो नित्यनिवृत्ता निद्राऽविद्या तमोरूपा यस्मात्तं विगतनिद्रम् । विजरं जरारहितं सदैकरूपमिति यावत् । विमृत्यु विगतमृत्युमविनाशिनम् । त्रीणि पदानि यस्य जाग्रत्स्वप्नसुषुप्ताख्यानि प्राणरूपस्य भूर्भुवः स्वरिति त्रैलोक्याख्यान्यादित्यरूपस्य स त्रिपा दस्तं त्रिपदम् । त्रीण्यक्षराणि यस्याकारोकारमकाराख्यानि प्रणवरूपस्य स व्यक्षरस्तं व्यक्षरम् । पुनः पञ्चधा ज्ञेयं विचिन्त्यं यतो गुहायां देहकुहररूपायां निहितमाश्रितं देहान्तश्चरन्तं प्राणापानादिरूपेण पञ्चधा ज्ञेयमित्यर्थः । इत्येवं ह्याह गुणविधायिनी श्रुतिरिति शेषः । एवं विशेषितमोमित्यनेनैतदुपासीतेति वक्ष्यमाणेनान्वयः । उक्तविशेषणस्याऽऽदित्यात्मनो भारूपत्वं विशेषतो ध्येयमित्यभिप्रेत्य वाच्यवाचकयोः परब्रह्मप्रणवयोः सारभूतोऽयं सवितेति तन्महिमानमाविष्करोति ऊर्ध्वमूलं ऊर्ध्वमूलमिति । ऊर्ध्व विकारातीतं परं ब्रह्म मूलमुपादानम् । तदेव मूलं स्वरूपतो निर्दिशति त्रिपाद्ब्रह्म शाखा आकाशवाबग्न्युदकभूम्यादय . एकोऽश्वत्थनामैतद्रौतस्यैतत्तेजो यदसा आदित्यः । त्रिपाब्रह्मेति । त्रिपादस्यामृतं दिवीतिमन्त्रभागप्रकाशितं विकारातीतं ब्रह्मास्य वाच्यप्रपञ्चस्याश्वत्थनाम्न ऊर्ध्वं मूलमित्यर्थः । अस्य शाखा आकाशादयो विकाराः । भूम्यादय इत्यादिपदेन चराचरग्रहः । शिष्टं प्रसिद्धार्थम् । एवंलक्षण एको ब्रह्माण्डलक्षणः समष्टिपिण्डोऽश्वत्थनामा श्वःपर्यन्तं स्थास्यतीतिविश्वासानहत्वादश्वत्थसंज्ञ इत्यर्थः । यदेतदश्वत्थसंज्ञितं जगदेतद्ब्रह्म ब्रह्मोपादानत्वान्न ततोऽन्यदित्यर्थः । तथाच काठकश्रुतिः'ऊर्ध्वमूलो अवाशाख एषोऽश्वत्थः सनातनः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते' इति । एतस्य सर्ववाच्याश्रयतया सर्वात्मकस्य ब्रह्मण एतत्तेजः प्रकाशः सार इत्यर्थः । किमित्युच्यते यदसा आदित्यो योऽसावादित्यः प्रसिद्ध एतद्ब्रह्मणस्तेन इति योजना । १ ग. ‘ता नित्यानि । २ ग. यं चि' । ३ क. °सावादि । ४ क. 'स्याधोऽश्व । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy