SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३९४ रामतीर्थविरचितदीपिकासमेता- [१ षष्ठः प्रपाठकः ] द्वे वाव० युञ्जीतेतीति । ब्रह्मणः परमात्मनो द्वे वाव द्वे एव रूपे रूप्यतेऽधिष्ठानतया ब्रह्माऽऽभ्यामिति रूपे निरूपके इत्यर्थः । के ते इत्यत आह-मूतं च मूर्त' सावयवं कार्यममूर्त तद्विपरीतं च कारणम् । अथानयोर्मध्ये यन्मूर्त तदसत्यम् "वाचारम्भणं विकारो नामधेयम्" इति श्रुतेः । यदमूर्तं तत्सत्यम् “ मृत्तिकेत्येव सत्यम् " इति (छान्दो० अ० १) श्रुतेः । यत्सत्यं परमार्थसत्यं सर्वाधिष्ठानं तद्ब्रह्म परिवृढम् । — सदेव सोम्येदमग्र आसीत् ' ' तत्सत्यं स आत्मा ' इति श्रुतेः । ब्रह्मशब्दार्थमाहयद्ब्रह्म तज्ज्योतिः प्रकाशस्वभावं यत्तज्ज्योतिर्ब्रह्माख्यं स आदित्यः सूर्यः 'येन सूर्यस्तपति तेजसेद्धः' इति श्रुतेः । स आदित्यो वा एष ब्रह्मप्रकाशात्मक ओमित्येतदात्मोंकारस्वरूपोऽभवत्प्रणवात्मनोदित इत्यर्थः । ओंकारो ह्यनुज्ञाक्षरं प्रसिद्धम् “तद्वा एतदनुज्ञाक्षरं यद्धि किंचानुजानात्योमित्येव तदाह" इति (छान्दो० अ० १) श्रुतेः। आदित्यश्वानुज्ञां कुर्वन्निव जगतामुदेति । य एवासौ तपति तमुद्गीथमुपासीतोमिति ह्येष स्वरन्नेति ' इति श्रुतेः । एवं प्रणवभूितः स आदित्य आत्मानं प्रणवं त्रेधा त्रिप्रकारमकुरुत कृतवान् । ओमिति अ उ म् इति तिस्रो मात्रा अवयवा एताभिः सर्वमिदमोतं प्रोतं चैव । यथा दीर्घतन्तुषु तिर्यक्तन्तवः प्रोतास्तिर्यक्तन्तुषु दीर्घतन्तव ओता वैपरीत्येन वा परस्परं संयोगविशेषेणैकीभूताः सन्तः पटशब्दवाच्या भवन्त्येवं प्रणवात्मके मय्येवा. शेषस्योतप्रोततयाऽवस्थानादहमेव प्रणवात्मोतं च प्रोतं चास्मि न मत्तोऽन्यत्किचिदित्येवं ह्याह–स आदित्यो यतस्तस्मादेतद्वा एष वा आदित्य ओमित्योंकार एवेत्येवं ध्यायत चिन्तयत हे वालखिल्याः । ध्यानशब्दार्थमाह-आत्मानं प्राणप्रधानं प्रत्यञ्चमादित्य आदित्यं चाऽऽत्मनि युञ्जीत व्यत्ययो बहुलमिति लकारवचनव्यत्ययेन योजयतैकात्मतां भावयतेत्यर्थः । इतीत्यनुवाकसमाप्त्यर्थः ॥ ३ ॥ ओंकारेणाऽऽत्माभिध्यानविधिं महीकुर्वस्तत्रैव विशेषान्तरं विधित्सन्नाह अथान्यत्राप्युक्तमथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथः । अथान्यत्राप्युक्तमित्यादिना । अथैतदन्यत्र च्छान्दोग्येऽप्युक्तं प्रणवस्योपासनम् । यद्यपि तत्राङ्गावबद्धमुपासनमिह तु स्वतन्त्रं तथाऽपि स्तुत्यर्थमुदाहरणं न गुणोपसंहारा. र्थमिति द्रष्टव्यम् । प्रणवोद्गीथयोरेकत्वकथनारम्भार्थोऽथशब्दः । खलुशब्दः कर्मप्रकरणोक्तोद्गीर्थस्मारणार्थः । य उद्गीथः सामगानामुद्गीथभक्त्यवयव ओंकारः स बहचानां शस्त्राङ्गभूतः प्रणवः, यश्च बहचानां प्रणवः स उद्गातृणामुद्गीथः ।। एवं शस्त्रस्तोत्राङ्गतया भिन्नस्थाननिवेशिन्योरोंकारव्यक्त्योरभेददृष्टिं विधाय तस्योद्गीथात्मकस्य प्रणवस्याऽऽदित्यात्मना द्रष्टव्यतामाह १ ग. ते मम्तिाव । २ क. 'यस्मर' । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy