________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[१ षष्ठः प्रपाठकः] मैन्युपनिषत् । यत्र पुष्करे स्थितोऽन्नमत्तीत्यध्यात्ममुक्तं दिवि श्रितोऽन्नमत्तीति चाधिदैवं तदुभयस्वरूपजिज्ञासया वालखिल्याः पृच्छन्ति
कः पुष्करः किंमयो वेति । कः पुष्करः० वेतीति । स्पष्टार्थः । उत्तरमाह प्रजापतिः
इदं वाव तत्पुष्करं योऽयमाकाशोऽस्येमाश्चतस्रो
दिशश्चतस्र उपदिशो दलसंस्था आसम् । इदं वाव० आसमिति । योऽयं प्रसिद्ध आकाश इदं वावेदमेव तत्पुष्करम् । पदध्यात्महत्पुष्करमुक्तं तदिदमेवाधिदैवं प्रसिद्धमाकाशं नानयोः स्वरूपभेदोऽस्तीत्यर्थः । तथा चाऽऽकाशमेव हृदये ब्रह्माण्डान्तरे च पुष्करमिति स्वरूपप्रश्नस्योत्तरमुक्तम् । किंमय इति प्रश्नस्योत्तरं वदन्हृदयपुष्करस्याष्टदलमयत्वं प्रसिद्धमिति मत्वाऽधिदैवपुष्करदलान्याह-अस्येति । अस्याऽऽकाशपुष्करस्येमाः प्रसिद्धाः प्राच्याद्या आग्नेय्याथाश्वतस्रश्चतस्रो दिशो दलसंस्था दलत्वेन स्थिता आसमासन्नित्यर्थः । तथा च हृदयाकाशबाह्याकाशयोर्हृदयकमलगताष्टदलानामष्टदिशां चाभेदो ध्येय इति तात्पर्यार्थः ।
एवमध्यात्माधिदैवयोः प्राणादित्यपुरुषयोर्भेदेन प्रतीयमानस्थानगुणक्रियाणामभेददनं विधाय पुनस्तावनूद्य सगायत्रिव्याहृतिप्रणवालम्बनं तयोरुपासनं विदधाति
अर्वाग्विचरत एतौ प्राणादित्या एता उपासीतोमित्येतदक्षरेण व्याहृतिभिः सावित्र्या चेति ॥ २ ॥ अर्वाग्विचरत० सावित्र्या चेतीति । एतौ प्राणादित्यौ यथाव्याख्यातावर्वागदूरे संनिहिती विचरतः परिवर्तेते हृदये बाह्याकाशे चेत्यर्थः । एतावुपासीत ध्यायेत् । कथम् । भोमित्येतदक्षरेण । एतेनाक्षरेणेत्येतत् । व्याहृतिभिर्भूर्भुवः स्वरित्येताभिस्तिसृभिः । सावित्र्या सवितृदेवत्ययर्चा गायत्र्याख्यया चेति । इतिशब्द ओंकाराद्यालम्बनविध्युपसंहारार्थः ॥ २॥
इदानीमुपासनालम्बनत्वेनोक्तस्योंकारस्य तत्त्वं प्रतिपादयिष्यस्तैस्तुतये तदुत्पत्तिप्रकारमाह
द्वे वाव ब्रह्मणो रूपे मूर्त चामूर्त चाथ यन्मूर्त तदसत्यं यदमूर्त तत्सत्यं तद्ब्रह्म तज्ज्योतिर्यज्ज्योतिः स आदित्यः स वा एष
ओमित्येतदात्माऽभवत्स त्रेधाऽऽत्मानं व्यकुरुतोमिति तिस्रो मात्रा एताभिः सर्वमिदमोतं प्रोतं चैवास्मीत्येवं ह्याहैतद्वा आदित्य ओमित्येवं ध्यायताऽऽत्मानं युञ्जीतेति ॥ ३ ॥
क. सतित्योमि । २ क. 'स्तत्त्वाप्तये। ३ क. 'नं व्याकु ।
For Private And Personal