SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३९२ रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः ] भिप्रेत्य विद्वान्मध्ये निर्दिष्ट इति द्रष्टव्यम् । एतयोरन्यतरस्य गत्याऽन्यतरस्य गत्यनुमानोपदेशस्तयोरेकगतित्वचिन्तनार्थ इति । इदानीमनयोः स्थानभेदं गुणभेदं च सिद्धवदन्य व्यतिहारं तच्चिन्तनाथ विधत्ते ___ अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो यः पश्यतीमा अथ य एषोऽन्तरादित्य इत्यादिना । गुणान्तरविधानारम्भार्थोऽथशब्दः । य एष प्रसिद्धोऽन्तरादित्य आदित्याख्यस्य मण्डलस्य मध्ये हिरण्मयो हिरण्मय इव हिरण्मयो ज्योतिर्मयोऽन्तर्यामी पुरुषः पुरुषाकारादित्यदेवतान्तरनुप्रवेशेन लब्धपुरुषाकार इति यावत् । कोऽसौ हिरण्मयः पुरुषो य इमां पृथिवीं पश्यति । इमामित्युपलक्षणं त्रैलोक्यमवभासयतीत्यर्थः । अस्य पुरुषस्य हिरण्मयत्वे निमित्तं स्वयमेवाऽऽह हिरण्यवस्थात्, · हिरण्यवस्थादिति । हिरण्ये हिरण्मये तेजःसंघातात्मके मण्डलेऽवस्थादवस्थानात्। तदभेदेनावस्थितत्वादित्यर्थः । “वष्टि भागुरिरलोपमवाप्योरुपसर्गयोः' इत्यवोपसर्गेऽव लोपः । पश्यत्यमी हिरण्यवस्थादितिपाठः प्रामादिकः । यदि सत्यस्तदा द्वितीयार्थे प्रथमा विपरिणेया । इमॉल्लोकान्पश्यतीत्यर्थः । इदानीमस्याध्यात्ममवस्थानमाह __स एषोऽन्तरे हृत्पुष्कर एवाऽऽश्रितोऽन्नमत्ति ॥१॥ स एष इति । यो हिरण्मयाण्डस्थतया हिरण्मयः पुरुष उक्तः स एषोऽन्तरे देहाभ्यन्तरे यद्धृत्पुष्करं हृदयकमलं तस्मिन्हृत्पुष्कर एवाऽऽश्रितस्तत्रैव प्राकट्यमुपगतः प्राणात्मा सन्नन्नमदनीयमत्ति भुङ्क्ते विषयान्वा शब्दादीनुपभुत इत्यर्थः ॥ १ ॥ एवमादित्यमण्डलान्तरभिव्यक्तं हिरण्मयत्वादिगुणकं पुरुषमनूद्य तस्य हुँदयान्तर्वतिप्राणात्मभावं विधायेदानीमुक्तप्राणात्मानमनूद्य तस्याऽऽदित्यात्मभावं विदधाति__ अथ य एषोऽन्तरे हृत्पुष्कर एवाऽऽश्रितोऽन्नमत्ति स एषोऽग्नि दिवि श्रितः सौरः कालाख्योऽदृश्यः सर्वभूतान्यन्नमत्तीति । अथ य एपोऽन्तरे० अन्नमत्तीतीति । अन्नमत्तीत्यन्तोऽनुवादभागो व्याख्यातः । स एष एवाग्निरत्ता दिवि धुलोके श्रित आश्रितः स्थित इत्यर्थः । कोऽयमग्निरित्यत आह-सौरः सूर्यतेजोरूपः। स एव प्राणिनां कलनात्कालाख्यः कालसंज्ञितः। अदृश्यः प्रत्यक्षागोचर एंव सन्सर्वभूतान्येवान्नं तान्यत्ति सर्वभूतानि संहरति । इतिशब्दो व्यतिहारोपदेशसमाप्त्यर्थः । १ क. घाम । २ क. 'वस्थानादि । ३ ग. हृद्यन्त । ४ क, श्रितः स्थि । ५ क. एवं स सर्व। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy