SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ ६ षष्ठः प्रपाठकः ] मैत्र्युपनिषत् । अन्तः किंरूपो बहिश्च किंरूपो व्यावर्तते कथं च तद्व्यावर्तनमित्येतद्विशदयतिअसौ वा आदित्यो वहिरात्माऽन्तरात्मा प्राणोऽतो बहिरात्मक्या गत्याऽन्तरात्मनोऽनुमीयते गतिरित्येवं ह्याह । असो वा आदित्यो वहिरित्यादिना । असौ प्रसिद्धो वा आदित्यः सूर्यो बहिरात्मा प्राणोऽन्तरात्मा यत एवमतो बहिरात्मन इयं बहिरात्मकी तत्प्रयुक्तेति यावत् । तया बहिरात्मक्या गत्या परिवर्तनेनान्तरात्मनः प्राणस्य गतिरनुमीयत इत्येवमेवंप्रकारं हि यत आहाऽऽगमज्ञोऽतोऽनयोर्न वास्तवो भेद इति शेषः । अयमाशयः । सूर्यो हि मेरुं प्रदक्षिणीकुर्वन्नहोरात्राभ्यां ब्रह्माण्डान्तः परिवर्तते प्राणोऽपि श्वासरूपेण देहान्तः परिभ्रमति तत्रैकाहोरात्रसूर्यगत्योः प्राणस्यैकविंशतिसहस्त्रसंख्याः श्वासा भवन्तीत्यागमशास्त्रसिद्धं प्राणपरिवर्तनमनुमीयते । यद्वा शतसंवत्सरपरिमितं हि पुरुषायुः “ शतायुर्वे पुरुषः शतेन्द्रियः' इति श्रुतिसिद्धेः । तावत्कालं च प्राणः शरीरान्तः संचरति । तत्रैकद्वित्रादिवर्षप्राणसंचरणपरिच्छेद आदित्यपरिवर्तनप्रचयाधीन इति तद्गत्या प्राणगतिरनुमीयत इति । इदानीमन्तरात्मगत्या बहिरात्मगत्यनुमानप्रकारमाह ३९१ अथ यः कश्विद्विद्वानपहतपाप्माऽक्षाध्यक्षोऽवदातमनास्तनिष्ठ आवृत्तचक्षुः सो अन्तरात्मक्या गत्या बहिरात्मनोऽनुमीयते गतिरित्येवं ह्याह । अथ य इति । अथशब्दः पर्यायान्तरारम्भार्थः । यः कश्चिद्विद्वान्प्राणादित्यात्मदशर्यत एवापहतपाप्माऽध्यात्मापरिच्छेदाभिमानासङ्गरूपपाप्मना रहितोऽत एवाक्षाध्यक्ष इन्द्रियाध्यक्षस्तेषु स्वतन्त्रो नेन्द्रियपरवश इत्यर्थः । अत एवावदातमना निर्मलचित्तः । तन्निष्ठस्तस्मिन्नुपास्ये निष्ठा तात्पर्यं यस्य स तन्निष्ठः सन्नावृत्तचक्षुर्बाह्यविषयव्यावृत्तेन्द्रियः । स उ इति च्छेदः स एव तेनेति विपरिणेयम् । य एवंविधो विद्वांस्तेनैवान्तरात्मक्या गत्या प्राणगत्या बहिरात्मन आदित्यस्य गतिरनुमीयत इत्येवं ह्याहेति व्याख्यातम् । एतदुक्तं भवति । अध्यात्माधिभूतयोः पिण्डब्रह्माण्डयोः स्वस्वमानेन शतं वर्षा - न्यायुष्प्रमाणमित्यस्य समत्वादध्यात्मगतप्राणात्मगत्या शतवर्षान्ते पिण्डपरित्यागलक्षया बहिरात्मनोऽप्यादित्यस्य ब्रह्माण्डपिण्डपरित्यागरूपा गतिस्तन्मानेन शतवर्षान्ते भवेदित्यनुमीयत इति । अथवा या प्राणात्मनो गतिर्देहधारणलक्षणा प्राणापानव्यापारैः क्रियमाणा तया बाह्यात्मन आदित्यस्य ब्रह्माण्डविधारणरूपोदयास्तमयनिर्वर्त्या होरात्रव्यापारैः क्रियमाणा गतिरनुमीयते । एतच्च प्राकृतजनबुद्ध्यगोचरत्वाद्विद्वद्दृष्टिगम्यत्वम For Private And Personal १ . षट्संख्या: । २ क. 'ति प्रति । ३ ग. 'निष्ठा आ । ४क. 'मानस । ५ गतः । तत्रिष्ठा त ।
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy