SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः ] कादिरूपेण बहिश्चेश्वरकालदेवतादिरूपेण विभाव्यते नान्य इत्यर्थः । अभ्यास आद. रार्थः प्रपाठकसमाप्त्यर्थो वा ॥ २ ॥ इति श्रीरामतीर्थविरचितायां मैत्र्युपनिषद्दीपिकायां पञ्चमः प्रपाठकः ॥ ५ ॥ अथ षष्ठः प्रपाठकः । योऽन्तर्बहिः सर्वजनेषु नित्यं चरत्यशान्तेषु सुशान्तरूपः । प्राणात्मनाऽन्तर्बहिरंशुमालिरूपेण तस्मै सततं नमोऽस्तु ॥ १ ॥ नमो गुरुभ्यः सर्वेभ्यो येषां चरणसंस्मृतिः । सदौपनिषदे शुद्धे तत्त्वेऽर्पयति मे धियम् ॥ २ ॥ एवमियता ग्रन्थसंदर्भेण चिदात्मैक एव प्रत्यब्रह्मरूपेण विज्ञेयः स एव ब्रह्मादिरूपेणानेकविशेषावस्थो ध्येयश्चेति मुमुक्ष्वपेक्षितोऽर्थः सर्वो दर्शितो मुक्तिश्च चिदात्मसायुज्यप्राप्तिरभिहिता । इदानीमस्यैव चिदात्मनोऽनेकधोपास्यत्वायानेकमहिमानमावि. कुर्वती श्रुतिर्मन्दमध्यमाधिकारिविषयास्तदुपासनाः सालम्बना अनेकप्रकारा विधातुं प्रववृत उत्तरेण प्रपाठकेन तत्त्वज्ञाननिष्ठापेक्षितानि साधनान्यपि कानिचिद्विधातुम् । अम्य च खिलत्वान्नातीवात्र संगतयोऽपेक्ष्यन्ते तथाऽपि यथामति संगतिमूहमाना अक्षराणि व्याख्यास्यामः । तत्राध्यात्माधिभूतदेहब्रह्माण्डोपाधिभ्यां चिदात्मनः क्रियाशक्तिप्रधानलिङ्गानुगतचिदाभासाभेदेन प्राण आदित्यश्चेति द्विधा भेदं प्रकल्प्य तेनाऽऽत्मनोपासनं विधातुमाह द्विधा वा एष आत्मानं विभय॑यं यः प्राणो यश्चासा आदित्यः । द्विधा वा एष इत्यादिना । एष पूर्वप्रकृत आत्मा वै प्रसिद्धः सर्वश्रुतिषु द्विधा द्विप्रकारेणाऽऽत्माने स्वं रूपं बिभर्ति धत्ते पालयति वा । प्रकारभेदमेव विशदयति-यः प्राणो देहे पञ्चधाऽऽत्मानं विभज्य स्थितोऽस्तीयमेका विधा यश्चाप्सी ब्रह्माण्डकरण्डमध्ये जगदवभासकतयाऽवस्थितोऽस्त्यादित्यः सोऽयमपरा विधेत्यर्थः । अध्यात्म प्राणात्मनाऽधिदैवमादित्यात्मना च ब्रह्मरूपश्चिदात्मा ध्येय इत्युपासनोत्पत्तिविधि सूचयन्नाह अथ द्वौ वा एता अस्य पन्थाना अन्तवहिवाहोरात्रेणैतौ व्यावर्तेते । अथेति । अथेदमुच्यतेऽस्याऽऽत्मन एतौ द्वौ पन्थानौ विशेषाभिव्यक्तिमार्गौ । कौ । अन्तर्देहाभ्यन्तरं बहिश्च देहादध्यात्मरूपाद्वाह्यो देशश्चेति द्वौ पन्थानावित्यर्थः । एतौ प्राणादित्यावहोरात्रेणाहा राव्या च व्यावर्तेते विपरिवर्तनं कुर्वीते इत्यर्थः । १ क. 'मादिवि । २ क. सावादि। ३ क. 'नं स्वरू' । ४ ग. 'श्वासा असौ । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy