SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३८९ ५ पञ्चमः प्रपाठकः] मैत्र्युपनिषत् । संसारी देवो मनुष्यस्तिर्यस्थावर इति' च व्यपदेशभाग्भवति । अत्र सर्वत्र सत्त्वगुणपरिणाम एव चिदात्मनो विशेषाभिव्यक्तिर्नान्यत्र । सत्त्वस्य च रजस्तमःसंपर्कविशेषाविशेषाभ्यां चिदात्माविर्भावविशेषतारतम्याज्ज्ञानक्रियाशक्त्यैश्चर्यतारतम्येन सर्वज्ञमूढामूढत्वादितारतम्यावभास इति। एतमेवाभिप्रायं विशदयति अथ यो ह खलु वावास्य तामसोंऽशोऽसौं स ब्रह्मचारिणी योऽयं रुद्रोऽथ यो ह खलु वावास्य राजसोऽशोऽसौ स ब्रह्मचारिणो थोऽयं ब्रह्माऽथ यो ह खलु वावास्य सात्विकोऽशोऽ. सौ स ब्रह्मचारिणो योऽयं विष्णुः स वा एष एकत्रिधा भूतोऽ धैकादशधा द्वादशधाऽपरिमितधा वोद्भुत उद्भूतत्वाद्भूतं भूतेषु चरति प्रविष्टः स भूतानामधिपतिर्बभूवेत्यसाँ आत्माऽन्तर्बहिश्चान्तर्बहिश्च ॥ २ ॥ इति मैत्र्युपनिषदि पञ्चमः प्रपाठकः ॥५॥ अथ यो ह खलु० अन्तर्बहिश्चेति । अथैवंप्रकारे व्यवस्थिते सत्यस्याऽऽत्मनो यो ह खल्वित्थं वाव य एवेति संबन्धः । तामसस्तमःप्रधानोंऽशस्तमउपाधिको विशेषोऽसौ स हे ब्रह्मचारिणः । कोऽसौ योऽयं रुद्रः प्रसिद्ध इत्यर्थः । एवमुत्तरयोरपि पर्याययो ाख्या । स वा एष एकः स वै पूर्वमुपपादित एष इदानीमुपाध्यधिष्ठातृत्वेनोक्त एक एव रुद्रब्रह्मविष्ण्वात्मना त्रिधाभूतः कारणोपाधिमधिष्ठाय त्रिधाभूत इत्यर्थः । अष्टधा पञ्चविधप्राणादित्यौ सनक्षत्रश्चन्द्रश्चेति त्रयः पञ्च भूतानि चेत्यष्टधेत्यर्थः । एकादशेन्द्रियभेद एकादशधा । तत्रैव मनोबुद्धयोर्भदे सति द्वादशधा । तत्तदिन्द्रियवृत्तीनामनन्तत्वात्तद्भेदेनापरिमितधा । वाशब्दो विकल्पार्थः । अध्यात्मं वाऽधिभूतं वाऽधिदैवं वा यद्यकिंचिदस्ति तत्सर्वमवभासयंस्तत्तदात्मना नानाविध उद्धृतोऽभिव्यक्त उद्भूतत्वादेव भूतं भूतसंज्ञ आत्मा भवतीत्यर्थः । “महदूतमनन्तमपारम्" (बृहदा० आ० २) इति श्रुतेः "एको विष्णुर्महद्भूतम्" इति स्मृतेश्च । यतो भूतेषु प्रविष्टो भूतावभासकतया भूतनियन्तृतया चानुगतश्चरति गच्छति भूतानि व्याप्नोत्यत उद्भूतत्वातमिति योजना । अत एव भूतवशितया भूतानामधिपतिर्बभूवाधिष्ठाय पालयिताऽभवट्यवहारदृष्ट्येत्यर्थः । उपसंहारार्थ उत्तरो भागः । इत्येवमुक्तप्रकारेणासीवात्मा यथाव्याख्यातोऽन्तःसाक्षिप्रमातृ. १ क. ति व्य । २ क. सौ व । ३ ख. णोक्योऽ । ४ ख. योऽयत्र । ५ क. सौ व्र' ६ ग. भूवा ई। ७ क. "सावात्मा। ८ ग. श्च चर। ९ ग. सा असावा । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy