________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३८८ रामतीर्थविरचितदीपिकासमेता- [ ५ पञ्चमः प्रपाठकः ] साक्षिचैतन्यं तया भीयतेऽवभास्यत इति चेतामात्रः स्वप्रकाशसाक्षिमात्रेणानुभाव्य इत्यर्थः । यतः प्रतिपुरुषः प्रतिबिम्बो नानोदपात्रेष्विव सूर्यादिर्नानाविधार्थाकारबुद्धिवृत्तिषु विभाव्यमानत्वात्प्रतिपुरुष इत्यर्थः । लौकिकप्रतिबिम्बवदचैतन्यं वारयति
क्षेत्रज्ञः क्षेत्रज्ञ इति । क्षेत्रं शरीरं धर्माधर्मबीजप्ररोहभूमित्वात्तदापादतलमस्तकमहमिति जानातीति क्षेत्रज्ञो जीव इत्यर्थः । तदुक्तं भगवता श्रीकृष्णेन
"इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः" इति ॥ तत्सद्भावं साधयति
संकल्पाध्यवसायाभिमानलिङ्गः प्रजाप
तिर्विश्वेत्यस्य प्रागुक्ता एतास्तनवः । संकल्पेति । संकल्प इदं मया कर्तव्यमित्येवमाकारो मनसो विकारः । अव्यवसायः कर्तव्यविषयस्वरूपसाधनफलानां यथावदवधारणरूपा बुद्धिवृत्तिः । अभिमानोऽहमस्मि
समर्थ इत्याद्यहंकारः । एतेषामचेतने मृतशरीरेऽदर्शनाजीवच्छरीरे च दर्शनादेतानि लिङ्गानि शरीरातिरिक्ततया सद्भावप्रमापकाणि यस्य स संकल्पाध्यवसायाभिमानलिङ्गः । एतैलिदेहादिविलक्षणोऽस्तीति संभाव्यमान इत्यर्थः । प्रजापतिः समष्टिवैराजपिण्डाभिमानी देवः । विश्वा व्यष्टिपिण्डाभिमानिनी देवता । इत्येवमाद्या एताः प्रागुक्ता अस्यैव क्षेत्रज्ञस्य सत्त्वपरिणामप्रतिबिम्बितस्य चिदात्मनस्तनवः । चिदात्मैव तत्तन्मूर्तिभेदेषु तत्तदात्मना विभाव्यमानोऽवतिष्ठते, नास्मात्तत्त्वान्तरभूतं किंचिदित्यर्थः । तथाच श्रुत्यन्त. रम्-"नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽ. स्ति विज्ञातैष त आत्माऽन्तर्याम्यमृतः" (बृहदा० अ० ५) इति । एतदुक्तं भवति किं कारणं ब्रह्मेति । ब्रह्मवादिनां ब्रह्मणः सहकारिभूतजगत्कारणविमर्श "ते ध्यानयोगानुगत। अपश्यन्देवात्मशक्ति स्वगुणैर्निगूढाम्" इति त्रिगुणात्मिका मायाख्या शक्तिरवधृता श्वेताश्वतराणां मनोपनिषदि । सा च ब्रह्मणः सर्वकारणत्वनिर्वोद्री शक्तिस्तेनाधिष्ठीयमाना गुणत्रयविभागेन यदा विकृता भवति तदा तदधिष्ठाताऽपि तत्सत्तास्फुर्तिप्रदत्वेन तदनुगतो विकृत इव भवति । तत्र च यथाविकारव्यपदेशं सोऽपि व्यपदिश्यते । तत्रापि त्रिगुणात्मकेन कारणेनेश्वरान्तर्याम्यादिशब्दैर्व्यपदिश्यमानः सत्त्वादीनामेकैकप्राधान्येन ब्रह्मादिसंज्ञाभाग्भवति । तदा तत्राऽऽविर्भूतगुणविशेषवत्तया स उपास्यो व्यपदिश्यते गुणकार्यस्थूलसूक्ष्मशरीरोपाध्यविशेषेण तदभिमानेन वा व्यवह्रियमाणो जीवः क्षेत्रज्ञः
१ क. णत्वानि । २ क. पास्य उप ।
For Private And Personal