SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३८७ [ ५ पञ्चमः प्रपाठकः] मैञ्युपनिषत् । ..... तम्कि सांख्याभिमतं प्रधानं नेत्याह- तत्परे स्यात्तत्परेणेरितं विषमत्वं प्रपात्येतद्रूपं वै रज स्तद्रजः खल्वीरितं विषमत्वं प्रयात्येतद्वै सत्त्वस्य रूप तत्परे स्यादिति । तत्तमः परे कार्यकारणत्वातीते तत्कल्पनाधिष्ठाने चिदात्मनि स्याद्भवतीति यावत् । अचेतनस्य तस्य स्वातन्त्र्यानुपपत्तेरित्यर्थः । एवं जगतः प्रागवस्थां चेतनपराधीनामुक्त्वा तत्प्रवृत्तेरपि तदधीनतामाह-तत्परेणेति । तत्कारणं प्रविलीनकार्यावस्थं तमः परेण चिदात्मनाऽधिष्ठानभूतेनेरितं प्रेरितं तचैतन्याभासव्या. प्त्योपचितं बीजमिव सलिलादिव्याप्त्येत्यर्थः । विषमत्वं पूर्वावस्थाप्रच्युतिरूपमुच्छूनमिव बीज साम्यावस्थात्यागेन तद्विलक्षणत्वं प्रयाति कार्योन्मुखं भवतीत्यर्थः । यद्यपि मायाव्याकृताविद्यादिशब्दवाच्यस्य कारणम्य नित्यैक चैतन्यव्याप्तिनित्यमेव तत्राध्यस्तत्वात्तथाऽपि सुषुप्तस्य स्वप्नादिवृत्युद्भववदबुद्धिपूर्विकैव कादाचित्की विद्याकर्मपूर्वप्र. ज्ञानुसारिणी चिदाभासव्याप्तिर्भवतीति न सृष्ट्यादिसातत्यशङ्कावकाश इति गमयितव्यम् । यदिदं परेरितस्य तमसो विषमत्वगमनमेतद्पं वै प्रसिद्धं रजो रजोगुणाख्यं कारणमि. त्यर्थः । तत्खलु रजः पूर्ववत्परेणेरितं सद्विषमत्वं प्रयाति । यदिदं रजसो विषमत्वगमनमेतद्वै सत्त्वस्य सत्त्वगुणप्रधानकारणम्य रूपं प्रकारभेद इत्यर्थः । एवं गुणवैषम्यं सनिमित्तं कारणव्यापारमुक्त्वा तस्य कार्याकारपरिणामप्रकार माह तत्सत्त्वमेवेरितं रसः संप्रास्रवत् , - तत्सत्त्वमेवेति । तत्परेणाऽऽत्मना पूर्ववदीरितं सत्त्वमेव न तमोरनमी तयोर्वक्ष्यमाणार्थाभिव्यञ्जकत्वासामर्थ्यात् । रसः सारश्चिदानन्दप्रकाशः "रसो वै सः । रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति" (तैत्ति० उ०) इति श्रुत्यन्तरात् । स संप्रास्त्रवत्स. म्यक्प्राकट्येनास्रवत् । सत्त्वमेव चिदात्मनो विशेषाकाराभिव्यक्तियोग्याकारतया प्रसृतं सच्चिदात्माकारमेव विप्रसृतमित्यर्थः । ' अयमेव हि तत्र तत्र बुद्धिरिति च महानिति चाहमवभास्य इति च द्रष्टेति चाss. ख्यायते नान्य इत्यभिप्रेत्याऽऽह सोऽशोऽयं यश्वेतामात्रः प्रतिपुरुपः सोऽश इति । सोऽयमंशोंऽश इवांशश्चिदात्मनो विशेषावस्थाऽऽकाशस्येव दारुसुषिराद्यवस्था न तु निरवयवस्य परमार्यतोऽशोऽस्ति । कोऽसौ यश्चेतामात्रश्चेता चेतना १ ख. 'मत्व । २ ख. °मत्व प्र । ३ क. 'तं त । ४ क. 'दिसातौं । ५ क. कार्यकारणप। ६ क. 'त् । सं । ७ ख. सोशोऽ। ८ ख. शेजनमा । ९ ख. 'रुषं क्षे। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy