SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३८६ रामतीर्थविरचितदीपिकासमेता- [५ पञ्चमः प्रपाठकः ] त्वनिष्ठता भवतीत्यर्थः । अथवा स्वार्थे स्वाभाविकेऽर्थे च लोकस्य या संस्थितिः प्रवृ. त्यादिनिष्ठा सा त्वय्यायतेत्यर्थः । विश्वेश्वर नमस्तुभ्यं विश्वात्मा विश्वकर्मकृत् । विश्वभुग्विश्वमायुस्त्वं विश्वक्रीडारतिप्रभुः ॥ विश्वस्येष्ट इति विश्वेश्वरस्तस्य संबुद्धिः । तर्हि विश्वमन्यदिति शङ्कायामाहविश्वात्मेति । त्वमेव विश्वमित्यर्थः । यतो विश्वकर्मकृत्क्रियते तत्कर्म विश्वाख्यं कर्म कार्यं करोतीति विश्वकर्मकृत् । विश्वोपादानत्वाद्विश्वात्मेत्यर्थः । यद्वा विश्वेश्वरत्वे हेतुविश्वात्मेति । विश्वस्याऽऽत्मा स्वरूपं तत्रापि हेतुर्विश्वकर्मकृदिति । अतः कारणत्वास्वकार्य विश्वं व्याप्य तन्नियमयन्नवस्थितो विश्वेश्वर इत्यर्थः । भोक्तारो जीवा अन्ये भविष्यन्तीति शङ्कां वारयति-विश्वभुगिति । यो विश्वस्य भोक्ता प्रसिद्धः सोऽपि त्वमेवेत्यर्थः । किंच त्वमेव विश्वमायुः सर्वस्य सर्वमायुनर्जीवनं प्राणरूपेण वा सर्वायुः । तथाच श्रुत्यन्तरम्- “यावद्ध्यास्मिञ्शरीरे प्राणो वसति तावदायुः" (कौषी० अ० ३) इति । किं बहुना त्वमेव विश्वक्रीडारत्योः प्रभुः । बाह्योपकरणा प्रीतिः क्रीडा तन्निरपेक्षाऽऽन्तरप्रीती रतिस्तयोस्त्वमेव स्वतन्त्रः समर्थ इत्यर्थः । नमः शान्तात्मने तुभ्यं नमो गुह्यतमाय च । अचिन्त्यायाप्रमेयाय अनादिनिधनाय चेति ॥१॥ शान्तात्मने कूटस्थस्वरूपाय गुह्यतमाय वाचामगोचरायाचिन्त्यायान्तरिन्द्रियाविषयायाप्रमेयाय बाह्येन्द्रियाविषयायानादिनिधनाय नित्यसद्रूपायेत्यर्थः । चकारात्स्वयंप्र. काशाय चेत्यर्थः । इतिशब्दो मन्त्रसमाप्त्यर्थः ॥ १॥ __ मन्त्राणामारम्भे त्वं ब्रह्मा त्वं च वै विष्णुरित्यादिना ब्रह्मादिदेवतात्मत्वं प्रत्यग्नह्मणे उक्तं तत्र ब्रह्मादीनां तत्त्वान्तरत्वात्कथमित्थं स्तुतिरिति शङ्कानिरासायोत्तरा श्रुतिः प्रववृते । तत्रैक एव यथोक्तश्चिदात्मा स्वमायागुणैस्तदवस्थाभेदैश्चानेकोऽ. नेकविशेषोऽनेकविधक्रियाप्रवर्तको न तत्त्वभेदः क्वाप्यस्तीति दर्शयन्ती श्रुतिब्रह्मादि. त्रिमूर्तिभावेनास्याऽऽत्मन उपासनं विधातुं प्रथमं मूर्तित्रयव्यपदेशनिमित्तमाह तमो वा इदमग्र आसीदेकं तमो वा इत्यादिना । इदं ब्रह्मविष्णुरुद्रादिकमग्रे सृष्टयुपक्रमात्प्राक्तमो वै तम एव तमोगुणप्रधानमायामात्रमेवाऽऽसीदेकमेकीभूतमनभिव्यक्तनामरूपमखण्डतमोमात्रमासोदित्यर्थः । एतेनासत्कारणवादोऽसत्कार्यवादश्च व्युदस्तः । इदं तम इति सामानाधिकरण्योक्तेरग्र आसीदिति सत्त्वोक्तेश्च । १ ख. रतिः प्र । २ क. °ण इत्युक्तं । ३ क. प्रवर्तते । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy