SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [५ पञ्चमः प्रपाठकः] मैत्र्युपनिषत् ।... ३८५ कृत्स्नक्षये कृत्स्नस्य सर्वदेवतात्मनः सत्यलोकस्थस्य हिरण्यगर्भस्य क्षयेऽवसाने संपूर्णब्रह्मरूपः सन्पुरुषस्य पूर्णस्य परब्रह्मण एकत्वं सायुज्यमेति गच्छति क्रममुक्तिमुपैतीत्यर्थः । अभ्यासः प्रपाठकसमाप्त्यर्थः । अत्रेयं व्यवस्था । कार्यकारणोपाधिद्वयविलापनेन प्रत्यगेकरसतया ब्रह्म ध्यायत इहैव साक्षान्मुक्तिः । प्रारब्धफलशेषभोगाय देहस्थितावपि स मुक्त एव । यः पुनः कार्यकारणब्रह्मोपासकः स ब्रह्मण्यहंग्रहाद्ब्रह्मलोकेऽचिरादिमार्गेण गत्वा तत्रोपासनफलभोगावसाने तत्रोत्पन्नसम्यक्तत्त्वज्ञानान्मुक्तिमुपैष्यतीत्यस्य क्रममुक्तिः । ये पुनः प्रतीकोपासका अन्नं ब्रह्म प्राणो ब्रह्माऽऽदित्यो ब्रह्म मनो ब्रह्मेत्येवंदृष्टयस्तेषां 'न प्रतीके न हि सः' इति न्यायेन ब्रह्मक्रतोरभावात्ते यथोपासनं ब्रह्मलोकार्वाक्तनेषु लोकेषु फलमनुभूय पुनरावर्तन्ते ब्रह्मलोकं गता अपि केचित्पञ्चाग्निदर्शनादिनिष्ठा इति ॥ ६ ॥ इति श्रीरामतीर्थविरचितायां मैत्रीशाखोपनिषद्दीपिकायां चतुर्थः प्रपाठकः॥४॥ अथ पञ्चमः प्रपाठकः । ' तदेवं ससाधनां ब्रह्मविद्यामुपदिश्येदानीमुक्तवक्ष्यमाणसर्वोपासनाङ्गभूतान्नमस्कारमबानाह अथ यथेयं कौत्सायनी स्तुतिःअथ० स्तुतिरिति । कुत्सायनेन दृष्टा कौत्सायनीयं वक्ष्यमाणा स्तुतिः स्तुतिरूपो मन्त्रगण आरभ्यते । अथशब्द आरम्भार्थः । यथोपलब्धा तथाऽऽरभ्यत इत्यर्थः । त्वं ब्रह्मा त्वं च वै विष्णुस्त्वं रुद्रस्त्वं प्रजापतिः। त्वमग्निवरुणो वायुस्त्वमिन्द्रस्त्वं निशाकरः॥ त्वं ब्रह्मेति । ब्रह्मा हिरण्यगर्भः । प्रजापतिविराट् । त्वमन्नस्त्वं यमस्त्वं पृथिवी त्वं विश्व खमथाच्युतः । स्वार्थे स्वाभाविकेऽर्थे च बहुधा संस्थितिस्वयि ॥ अद्यत उपजीव्यते सर्वैरिति वाऽत्ति सर्व स्वात्मन्युपसंहरतीति वाऽन्नमन्नवदाचरतीत्यन्नः । तथाच श्रुत्यन्तरम्-" अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यते" (तैत्ति. उ०) इति । विश्वं चराचरम् । अथ च सर्वात्मकत्वेऽपि त्वमच्युतोऽप्रच्युतनिजस्वभावः कूटस्थ एवेत्यर्थः । स्वार्थः पुरुषार्थो धर्मादिचतुष्टयरूपः स्वाभाविकः प्राकृतिकः स्वस्वप्रकृत्यनुसायर्थस्तयोरुभयोनिमित्तं लोकस्य त्वयि ब्रह्मणीश्वरे बहुधा संस्थिति नामार्गेण १ क. पास्ते स । २ क. त्वं मनुस्त्वं । ३ क. 'मश्च त्वं श्वं त्वम। ६ ख. 'धा सस्थि ।। । ४ क. 'वी त्वम । ५ ग. For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy