________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३८४
रामतीर्थविरचितदीपिकासमेता- [ ४ चतुर्थः प्रपाठकः ] देत्यग्न्यादिरूपेण । तथाच योऽग्न्यादिर्यस्योपासकस्यानुषक्तः स तदेव ब्रह्म प्रतिमारूपमुपासीतेत्येवं ह्याहेति योजना। अग्न्यादीनां देवानां ब्रह्माग्न्यतनुत्वमुक्तं साधयति
ब्रह्म खल्विदं वाव सर्वम् । ब्रह्म सर्वमिति । इदं सर्वं ब्रह्म वाव ब्रह्मैव खल्वित्यन्वयः । तथाच श्रुत्यन्तरम् - 'सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत' (छान्दो०अ० ३) इति । अस्यार्थः--सर्वमिदमध्यात्ममधिदैवमधिभूतं वाऽशेषं जगद्ब्रह्मैव खलु नात्र संशयः कार्यः । कुत इत्यपेक्षायां हेतुमाह तज्जलानितीति । तस्माज्जायत इति तज्नं तस्मिल्ली. यत इति तल्लं तेनानिति चेष्टत इति तदनम् । अम्लोपश्छान्दसः । इतिशब्दो हेत्वर्थः । तस्माद्ब्रह्मणो जातत्वात्तस्मिन्नेव लीयमानत्वात्तदाश्रयजीवनत्वाच्च तदेवेदं ब्रह्म यथा मृत्सुवर्णाद्युत्पत्तिस्थितिलया घटकुण्डलादयो मृत्सुवर्णाद्यात्मकास्तथेमे तस्मात्तथेति ।
यद्यप्येवं सर्वमेव ब्रह्मणः शरीरं तथाऽपि यत्स्वस्मादुत्कृष्टत्वेनाभिमतं तदुपास्यम् । देवा हि मनुष्याणामुत्कृष्टत्वेनाभिमता अन्नादयश्च जीवनहेतुत्वात्तथाभिमानयोग्या इत्यतस्ते ब्रह्मणोऽग्र्यास्तनव इति ब्रह्मदृष्ट्योपास्या इत्याह
या वास्या अग्यास्तनवस्ता अभिध्यायेदर्चयेन्निनुयाचात. स्ताभिः सहैवोपर्युपरि लोकेषु चरत्यथ कृत्स्नक्षय एकत्वमेति पुरुषस्य पुरुषस्य ॥६॥
इति मैन्युपनिषदि चतुर्थः प्रपाठकः ॥ ४ ॥ या वास्या० पुरुषस्येति । याः काश्चिद्वास्या वासयोग्या आश्रयाऱ्या ब्रह्मणोऽध्यास्तनवोऽग्र्याः श्रेष्ठा अभिध्यायेत् । यद्वाऽस्य ब्रह्मणो या वा याः काश्चिदग्र्यास्तनव इति योजना । अस्मिन्पक्षे दैयविसंधी छान्दसौ । ता ब्रह्मबुद्धयाऽभिध्यायेत् । अर्चयेत्पुष्पोपहारादिना पूजयेत्प्रतिमासू वा हृदये वा । निनुयाच्च तत्तदुपास्यदेवतात्माभिमानेनाध्यात्मपरिच्छेदाभिमानं स्वाभाविकं देवताया आत्मभावापादनेन हित्वा पृथगग्न्यादिदेवतात्वं च निहनुयात्परित्यजेत् । चशब्दो ध्यानार्चननिद्भवानां समुच्चयार्थः । तथाच श्रुत्यन्तरम् - "तं यथा यथोपासते तदेव भवति" इति " देवो भूत्वा देवानप्येति " इति च । यत एवं देवतात्मभावनया ब्रह्मतनुभूता देवता उपास्तेऽतस्ताभिर्ब्रह्मतनुरूपदेवताभिः सहैव तदैकात्म्यं प्राप्येति यावत् । उपर्युपरि लोकेषु जनतपःसत्यलोकेषु चरति । उपासनातारतम्यालोकफलविकल्पः । तत्र तत्रोपासनाफलानि तत्तद्देवता- भुङ्क्त इत्यर्थः । यद्ययं देवतात्ममात्रदृष्टिस्तदा भोगान्ते पुनरिहाऽऽवर्तते "अप्रतीकालम्ब गन्नयतीति बादरायणः' इति न्यायात् । अथ यदि ब्रह्मण्यहंग्रहोपासकस्तदा
१ क. स तं देवं ब्रह्मप्र । २ ख. ति पश्चमकाण्ड उप ।
मनात
For Private And Personal