________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ४ चतुर्थः प्रपाठकः] मैन्युपनिषत् ।
३८३ नुपूर्येण निहितं धृतम् । अत्रास्माकं नास्ति संशय इत्यर्थः । अथेदानीमुत्तरमितः परमस्माभिः करिष्यमाणं प्रश्नमनुब्रह्मनुसृत्योत्तरं ब्रूहि कथयेत्यूचुरिति पूर्वेणान्वयः । कः प्रश्नः स पृच्छ्यतामित्युक्ता आहुः
अग्निर्वायुरादित्यः कालो यः प्राणोऽनं ब्रह्मा रुद्रो विष्णुरित्येकेऽन्यमभिध्यायन्त्येकेऽन्यं श्रेयः कतमो यः सोऽस्माकं
बहीति तान्होवाचेति ॥५॥ अग्निः० होवाचेतीति । एके ध्यायिनोऽन्यमभिध्यायन्ति । अन्यमन्यमिति वीप्सा द्रष्टव्या । एकेऽग्न्यादीनामेकैकमभिध्यायन्तीत्यर्थः । एकेऽन्यं परं ब्रह्म परमात्मेत्युच्यमानमर्थं ध्यायन्तीत्यर्थः । अत्र कतमः पक्षः श्रेयः श्रेष्ठः श्रेयस्कर इति वा । यः पक्षस्तवाभिमतः श्रेयस्त्वेन स एवास्माकं श्रेयान् । तमस्माकं त्वं ब्रूहीत्यपृच्छन्निति योजना । यद्वा स त्वं विजानन्यः श्रेष्ठः पक्षस्तमस्माकं ब्रूहीति योजना । तान्होवाचेति श्रुतिवचनमुक्तार्थम् ॥ ५ ॥
श्रेयोर्थिभिरग्न्यादयो वा प्रत्येकं पृथग्ध्येयाः परिपूर्ण ब्रह्म वा ध्येयमिति पृष्टः प्रजापतिः सर्वत्र ब्रह्मैव पररूपेण स्वरूपेण चोपास्यं श्रेयोर्थिभिर्नाग्न्यादिवरूपमेवोपास्यं तदुपासनाया अल्पफलत्वादित्यभिप्रेत्याग्न्यादीनामपि न ब्रह्मणोऽर्थान्तरत्वमस्तीति प्रतिपादयन्नुपासनाव्यवस्थामुपदिशतीत्याह
ब्रह्मणो पावैता अग्र्यास्तनवः परस्यामृतस्याशरीरस्य __ तस्यैव लोके प्रतिमोदतीह यो यस्यानुषक्त इत्येवं ह्याह । ब्रह्मणो० ह्याहेति । एता अग्न्यादिलक्षणा ब्रह्मणो वाव ब्रह्मण एवाग्याः श्रेष्ठास्तनवो मूर्तयः । ब्रह्मैवान्यादिरूपेण विभाव्यतेऽतस्तेषु ब्रह्मबुद्ध्योपासनं युक्तमिति भावः। किंलक्षणस्य ब्रह्मण इत्युच्यते परस्य । सर्वकारणस्य सर्वाधिष्ठानभूतस्येति यावत् । अत एवामृतस्य नित्यस्य । अशरीरस्याऽऽविर्भावतिरोभावधर्मवर्जितस्य ब्रह्मण एतास्तनव इति पूर्वेण संबन्धः । एवं चेद्यस्यैतास्तनवस्तदेव ब्रह्मोपास्यतामलं तदृष्ट्याऽन्योपासनयेत्यत आह-तस्यैवेति । योऽर्थो देवो वाऽन्यो वा यस्य पुंसोऽनुषक्तोऽनुरागविषयीकृतस्तस्यैवेह लोके प्रतिमोदति प्रतिमोदते प्रतिमोदनं करोति सर्व इत्येवं लोकप्रसिद्ध ह्याहेत्यक्षरयोजना । यो यस्यानुरागयोग्योऽनुरज्यमानो वा तमेव लोकाः प्रीणयन्त्यनुसरन्तीति च प्रसिद्धं लोके । तथा च परस्य ब्रह्मणोऽगोचरत्वौन्निराकारत्वात्तस्मिन्साक्षान्मनोनिरोधं कर्तुमशक्नुवतां प्रथममग्न्यादिदेवतास्वेव यथारुचि ब्रह्मदृष्ट्योपासनं श्रुतिधूपदिश्यत इत्यभिप्रायः । यद्वा तस्यैव ब्रह्मण इह लोके प्रतिमा मूर्तिरुदत्यु.
१ क. हीति पृच्छन्तीति । २ क. झैवेति प० । ३ क. (वात्त।
For Private And Personal