SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३८२ रामतीर्थविरचितदीपिका समेता - [ ४ चतुर्थः प्रपाठकः ] हिरण्यगर्भोऽन्योऽस्ति यस्मात्परमयमेतीत्याशङ्कयं न हि न हि सोऽप्ययमेवेत्याहअधिदेवत्वमिति । देवेभ्यश्च देवेभ्योऽप्यध्युपरि यदेवत्वं सर्वदेवाधिपतित्वं तदप्यय मेता भवतीति योजना | अद्भुत इति वक्ष्यमाणेन वाऽन्वयः । इतिशब्दः प्रदर्शनार्थः । देवाश्चायमेव भवतीत्येवंविधमस्य माहात्म्यमित्यर्थः । किंचाक्षय्यमविनाशि । अपरिमितमिति विशेषणमविनाशित्वसाधनम् । यत्परिमितं देशतः कालतः स्वरूपतो वा परिच्छिन्नं तद्विनाशि दृष्टं यथा घटादि । इदं तु तद्विपरीतत्वादक्षयमित्यर्थः । सांसारिक सुखवदस्य सातिशयत्वपारतन्त्र्यदुःखसंभेदशङ्काव्यावृत्तये विशेषणमनामयमिति । एवंभूतं यत्सुखं तदनुते प्राप्नोति भुङ्क इति वा । क इत्यपेक्षायामाह — य एवं विद्वाननेन त्रिकेण ब्रह्मोपास्ते स इत्यर्थः । पुनरपि फलान्तरमिव ब्रह्मसाक्षात्कार नान्तरीयकामुपाधिनिवृत्तिमुपन्यस्यति — अथ यैः परिपूर्णोऽभिभूतोऽयं रथितश्च तैर्वैव मुक्तस्त्वात्मन्नेव सायुज्यमुपैति ॥ ४ ॥ अथ यैः० सायुज्यमुपैतीति । अथास्यामवस्थायामयं परिपूर्णः पूर्णात्मा सन्नात्मन्नेवाऽऽत्मभूते ब्रह्मण्येव सायुज्यमुपैतीति संबन्धः । सायुज्योपगमनप्रकार माहावशिष्टैः पदैः । यैर्भूतपरिणामैर्देहेन्द्रियादिलक्षणैरयं विद्वान्पूर्वं परिभूत आत्मसात्कृतो रथितश्च रथं प्रापितो रथित्वं च प्रापित इति यावत् । तैर्वैव तैर्भूतपरिणामैः । वा एवेति च्छेदः । वाशब्दोऽप्यर्थे तैरपि मुक्त एवेत्यन्वयः । तुशब्दः पुनर्बन्धशङ्काव्यावृत्त्यर्थः । आत्मन्नेवेत्यादि व्याख्यातम् ॥ ४ ॥ एवमात्मानात्मनोस्तत्त्वमात्मतत्त्वब्रह्मज्ञानं च ससाधनमुपश्रुत्य किं कृतवन्तो वालखिल्या इत्यपेक्षायां तद्वृत्तमनुवदन्ती श्रुतिर्लब्धविद्यैः शिष्यैर्गुरौ कर्तव्यमुपदिशतिते होचुर्भगवन्नभिवाद्यसीत्यभिवाद्यसीति । ते होचुः ० अभिवाद्यसीतीति । पुनर्वचनमादरार्थम् । अभिवाद्यभिवदनशील आभिमुख्येन श्रोतॄणामनुभवपर्यन्तं तत्त्ववदनस्वभावोऽसि कृपयैव सर्वोपदेष्टाऽसि नास्मगुणापेक्षयेत्यर्थः । एवं गुरुमभिपूज्य किं कृतवन्त इत्यपेक्षायां गुरूपदिष्ट सर्वार्थावधारणोक्त्या तं प्रसा दयन्तः पुनः किंचिन्मनोगतं पृच्छन्ति ध्येयस्वरूपविप्रतिपत्तिनिरासेन मनः समाधानार्थमित्याह निहितमस्माभिरेतद्यथावदुक्तं मनसीत्यथोत्तरं प्रश्नमनुब्रूहीति । निहितं० ब्रूहीतीति । हे भगवन्यदुक्तं भवतैतदस्माभिर्मनसि स्वचित्ते यथावदा १ क. 'क्य सोऽ' । २ ख. त्मनैव । ३ ग. सायोज्यौं । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy