SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir Acharya Shri Kailashsagar [ ४ चतुर्थः प्रपाठकः ] मैञ्युपनिषत् । ३८१ अस्ति ब्रह्मेति ब्रह्मविद्याविदब्रवीब्रह्मद्वारमिदमित्येवैतदाह यस्तपसाऽपहतपाप्मा ॐ ब्रह्मणो महिमेत्येवैतदाह यः सुयुक्तोऽजस्रं चिन्तयति अस्ति ब्रह्मेत्यादिना । यो ब्रह्मविद्याविद्ब्रह्मविषयां विद्यां श्रवणमननलक्षणां वेत्ति सोऽस्ति ब्रह्माखण्डसच्चिदानन्दात्मकं ब्रह्मास्तीत्यब्रवीत् । प्रमाणयुक्तिजन्यं ब्रह्मज्ञानं ब्रह्मप्राप्तिसाधनमित्युक्तवानित्यर्थः । तथाच श्रुत्यन्तरम्-'अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते । अस्तीत्येवोपलब्धव्यः' ( कठो०६) इति । यस्तपसा पूर्वोक्तलक्षणेनापहतपाप्मा विशुद्धसत्त्वः, स त्वेतदिदं तपो यथाव्याख्यातरूपं ब्रह्मद्वारमेव ब्रह्मप्राप्तिद्वारमारादुपकारकं भवतीत्याहेति मध्यग्रन्थयोजना । यः पुनः सुयुक्तः सुतरामध्यात्मयोगनिरत ओमित्यजस्रं चिन्तयति स एतचिन्तनालम्बनमोंकाररूपं ब्रह्मणो महिमा माहात्म्यमाविर्भूतं ब्रह्मैवैतदित्याहेति योजना । सर्वमर्थजातं वाचकशब्दसंभिन्नत्वात्तस्मिनवगम्यमानं ततो न पृथगस्ति । वाचकशब्दभेदाश्च तद्यथा शकुना सर्वाणि पर्णानि संतृण्णान्येवमोंकारेण सर्वा वाक् संतृण्णा ओंकार एवेदं सर्वम् ' (छान्दो०अ० २) इति श्रुतेरोंकारान्नातिरिच्यन्ते । स चौकारोऽपि स्फुरणावगुण्ठितत्वान्न ततोऽन्योऽस्ति । स्फुरणं च सर्वस्य नामरूपात्मकस्य ब्रह्मैव 'आत्मैवास्य ज्योतिः' इति श्रुतेरात्मा च ब्रह्म ' अयमात्मा ब्रह्म ' इति श्रुतेः । तथाच प्रणवेन ब्रह्मात्मानुसंधानं ब्रह्मणः साक्षासाक्षात्कारहेतुरिति प्रणवार्थानुसंधाननिष्ठोऽब्रवीदित्युक्तं भवति । एवं त्रिधा विभक्तं साधनमिदानी समुच्चित्य विधत्ते ___तस्माद्विद्यया तपसा चिन्तया चोपलभ्यते ब्रह्म । तस्मादिति । अत्र त्रयाणामेषामेकस्मिन्पुरुषे यौगपद्यासंभवादवश्यंभाविनि क्रमेऽग्निहोत्रयवागूपाकवदर्थक्रमो द्रष्टव्यः । तथाच प्रथमं तपस्ततो ब्रह्मविद्या श्रवणादिलक्षणा ततः प्रणवैकनिष्ठतेति क्रमेण साधनत्रयवान्ब्रह्मोपलभेतेत्यर्थः । इदानीमुक्तसाधनत्रयातिशयवतः परमफलकथनपूर्वकं साधनत्रयविधेः प्राशस्त्याय ब्रह्मविदं स्तौति से ब्रह्मणः पर एता भवत्यधिदैवत्वं देवेभ्यश्चेत्यक्षय्यमपरिमितमनामयं सुखमश्नुते य एवं विद्वाननेन त्रिकेण ब्रह्मोपास्ते । स ब्रह्मणः० ब्रह्मोपास्त इति । स एवं ध्यायन्विद्वान्ब्रह्मणोऽपरस्य हिरण्यगभख्यस्य शब्दब्रह्मणो वा परः परस्तात्परं ब्रह्मैता गन्ता भवति परं ब्रह्मैव भवतीत्यर्थः । इदं मुख्यफलकथनम् । ' ब्रह्म वेद ब्रह्मैव भवति ' इत्यादि च श्रुत्यन्तरम् । तत्कि १ क. °द्ययोपासनया चि। २ ख. सद्ब्रह्म । ३ क. °वतत्वं । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy