SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३८० रामतीर्थविरचितदीपिकासमेता- [४ चतुर्थः प्रपाठकः ] स्वाभिलषितसाधनत्वात्स्वो धर्मो भवति तथाऽपि न तत्स्वरूपाविर्भावहेतुरिति न मुख्यं तस्य स्वधर्मत्वम् । स्ववर्णाश्रममात्राधिकारकस्तु धर्मश्चित्तशुध्यादिपरम्परया स्वस्वरूपाविर्भावहेतुरिति मुख्य इति भावः । उक्तमेवार्थं व्यतिरेकमुखेन द्रढयति-न स्वधर्मातिक्रमेणाऽऽश्रमी भवति । कैश्चन तत्तदाश्रमलिङ्गधारणमात्रादाश्रमी न भवति, तस्य स्वरूपतोऽपुरुषार्थत्वात्पुरुषार्थीहेतुत्वाचेति भावः । ___ ननु किमित्येवमाश्रमधर्मेष्वतियत्नः क्रियते तपसैव ब्रह्मविद्योदयसंभवात् । 'तपसा विन्दते महत्' इति वचनादिति चेत्सत्यम् । तदप्याश्रमधर्माविरोध्येव साधनं न तद्विरुद्धमपीत्याशयेनाऽऽह- आश्रमेष्वेवानवस्थस्तपस्वी वेत्युर्यंत इत्येतद्युक्तं आश्रमेष्वेवेति । आश्रमेष्वनवस्थ एवानाश्रमस्थ एव तपस्वी वा धार्मिको वेत्याधु. च्यते यत्तदेतदयुक्तमिति योजना। ननु तर्हि तत्र तत्राऽऽत्मज्ञानसाधनेषु 'तपसा ब्रह्म विजिज्ञासस्व' इत्यादि तपोवि. धानमनर्थकं स्वधर्मानुष्ठानादेवाऽऽत्मज्ञानसिद्धेरित्याशङ्कायामाह नातपस्कस्याऽऽत्मज्ञानेऽधिगमः कर्मसिद्धिति । नातपस्कस्येति । अतपस्कस्य वैधकायशोषणरहितस्याऽऽत्मज्ञाने नाधिगमो नाधिगमनमात्मज्ञानं नं प्राप्नोतीत्यर्थः । न केवलमेतावकि तु कर्मसिद्धिर्वा कर्मफललामो वा तस्य न स्यादित्यर्थः । अस्मिन्नर्थे संमतिमिव श्लोकमुदाहरति एवं ह्याह-तपसा प्राप्यते सत्त्वं सत्त्वात्संप्राप्यते मनः । मनसः प्राप्यते ह्यात्मा यमाप्त्वा न निवर्तत इति ॥ ३ ॥ एवं ह्याहेति । तपसा स्वधर्माचरणेन तदविरोधिवैष्णवादिनिष्कामव्रतविशेषाचरणलक्षणेन च सत्त्वं सत्त्वगुणप्रधानं चित्तं प्राप्यते, विशुद्धसत्त्वता लभ्यत इत्यर्थः । तस्मात्सत्त्वान्मनः संप्राप्यते । मनुतेऽनेनेति मनो विवेकविज्ञानम् । तस्मान्मनसो मननादात्मा पूर्ण तत्त्वं परं ब्रह्म हि निश्चितं प्राप्यते । आत्मतत्त्वसाक्षात्कार एवाऽऽत्मप्राप्तिर्नान्या तस्याऽऽप्तिर्नित्याप्तस्वरूपत्वात् । अत आत्मसाक्षात्कारो भवतीत्यर्थः । कोsयमात्मेत्यत आह—यमाप्त्वा प्राप्य साक्षात्कृत्य न निवर्तते पुनः संसारमण्डले भूतात्मभावाय नाऽऽवर्तते मुच्यत इत्यर्थः ॥ ३ ॥ इदानीमुक्तं साधनजातं राशित्रयमिव संपाद्योपायोपेयभावेनाऽऽत्मसाक्षात्कारे समु. चयेन विधत्ते १ क. तसिद्धिसा । २ ग. केवलं । ३ क त्वादपु। ४ क. षार्थहे । ५ ख. वावस्थितस्त। ६ ग. 'च्यता । ७ ख ‘दप्युक्त'। ८ क. न भवती । ९ क. मतमेव । १० ख. तताई। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy