________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ४ चतुर्थः प्रपाठकः] मैञ्युपनिषत् ।
३७९ एवंविधं भूतात्मनः स्वरूपं ब्रह्मादिस्तम्बपर्यन्तं समालोच्य तस्मिन्नभिमानस्त्याज्यः श्रेयोथिनेत्यभिप्रायः ॥ २ ॥ तदेवं वैराग्याय भूतात्मनः स्वरूपमुपवयेदानीमस्य त्यागोपायं पृष्टमुपदिशति
अयं वाव खल्वस्य प्रतिविधिभूतात्मनो यद्वेदविद्याधिगमः अयं वाव खल्वस्येत्यादिना । अस्य भूतात्मनोऽयं वावायमेव खलु प्रतिविधिः प्रतिविधानं प्रतिक्रिया भूतात्मत्वप्रहाणोपायः । कोऽयम् । यद्योऽयं वेदविद्याधिगमः । वेदद्वारा विद्याया आत्मतत्त्वविषयाया अधिगमः । सम्यक्प्राप्तिरित्यर्थः ।
कथं विद्याधिगमो वेदादित्यपेक्षायां विविदिषन्ति यज्ञेनेत्यादिश्रुत्यन्तरविनियोगानुरोधेन स्ववर्णाश्रमविहितधर्मानुष्ठानप्रभावकृतवान्तशुद्धिं विना न ज्ञानाधिगम इत्यभिप्राये. णाऽऽदौ बहिरङ्गाणि कर्माणि विदधाति
स्वधर्मस्यानुचरणं स्वधर्मस्येस्यादिना । स्वो धर्मः स्वधर्म आवश्यकं कर्म तस्यानुचरणमनुक्रमेणानुष्ठानम् । एतदेव स्पष्टयति
स्वाश्रमेष्वेवानुक्रमणं स्वधर्मस्य वा एतव्रतं स्तम्बशाखेवापराण्यनेनो भाग्भवत्यन्यथाऽाडिन्त्येष स्वधर्मोऽ.
भिहितो यो वेदेषु न स्वधर्मातिक्रमेणाऽऽश्रमी भवति । स्वाश्रमेष्वेवेति । यस्य वर्णस्य यावन्त आश्रमा विहितास्तेष्वाश्रमेष्वेव विहितानां कर्मणां तेन तेन वर्णेनानुक्रमणमनुष्ठानमिति यदेतद्वै प्रसिद्धं स्वधर्मस्य व्रतं निष्ठा । अप. राणि काम्यादीनि कर्माणि स्तम्बशाखेव तृणशलाकेष दृढानीत्यर्थः । एतदुक्तं भवति येन यच्छक्यं कर्तुं तन्न तस्य हितसाधनं किं तु यस्य वर्णस्य यस्मिन्नाश्रमे यो धर्मो विहितः स तस्य हितसाधनं तेन सोऽनुष्ठेयः काम्यादि तु मुमुक्षुणा हेयमिति । अनेनोक्तप्रकारस्वधर्मानुष्ठानेन । ऊर्ध्वभाक्, संसारमण्डलादुपरि यदसंसारि ब्रह्म तदूर्ध्वमुच्यते "ऊर्ध्वमूलो अवाशाख एषोऽश्वत्थः सनातनः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन" (कठो० ६) इति श्रुत्यन्तरात् । तदूर्व ब्रह्म भजत इत्यूद्धभाक् । ब्रह्मज्ञानवान्भवतीत्यर्थः । अन्यथा स्वधर्मातिक्रमणे काम्यकमनिष्ठायां वाऽवाडित्यधो नरकादिस्थानमर्वाचीनानेकानित्यपुरुषार्थ वा भजेतेत्यर्थः । संसारमण्डलान्न व्यावर्तत इत्यभिप्रायः । उपसंहरति-एष स्वधर्मो यो वेदेष्वभिहितो वर्णाश्रमनिबन्धनो न काम्यादि स्वधर्म इत्यर्थः । यद्यपि काम्याद्यपि कर्म कामिनः
१ ख. 'रणश्स्वा । २ ख. मणश्स्व । ३ ख. 'खेवेतरा। ४ ख. 'वाङ्पतत्ये' । ५ क, °ति यद्यस्याविहितं त ।
For Private And Personal