SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३७८ www.kobatirth.org . रामतीर्थविरचितदीपिका समेता - [ ४ चतुर्थः प्रपाठकः ] इदानीमस्मिन्सत्त्वबुद्धिरपि न कार्येत्याहइन्द्रजालमिव मायामयं Acharya Shri Kailashsagarsuri Gyanmandir इन्द्रजालमिवेति । मायाविनिर्मित हस्त्यादिवदृष्टनष्ट स्वरूपत्वान्मायामयमित्यर्थः । तत्त्वज्ञान वाध्यत्वादपि नास्मिन्सत्त्वमवधेयमित्याह -- स्वम इव मिथ्यादर्शनं कदलीगर्भ इवासारं स्वम इवेति । मिथ्यादर्शनं बाध्यदर्शनमित्यर्थः । विमतं बाध्यज्ञानप्रतिभासं कादाचित्कत्वात्स्वप्नदृष्टवदित्यनुमानमुक्तं भवति । कदलीगर्भस्तदन्तःशलाका तद्वदिदमसार - मल्पोपघातमप्यसह मानमित्यर्थः । प्रतिक्षणपरिणामादप्यविश्वास्यमित्याह नट इव क्षणवेषं नट इवेति । यद्वा नानाजात्यभिव्यञ्जकक्रमभाव्य नेकाकारपरिग्रहान्नाट इव दुर्लक्ष्यमित्यर्थः । अस्मिन्सौकुमार्य सौन्दर्यादिबुद्धिरपि न कार्येत्याह चित्रभित्तिरिव मिथ्यामनोरममित्यथोक्तम् । चित्रेति । मांसशोणितादिभित्र भत्सितत्वान्न मनोरममित्यर्थः । तदुक्तं मनुना - “अस्थिस्थूणं स्नायुबद्धं मांसशोणितलेपनम् । चर्मावनद्धं दुर्गन्धिपूर्ण मूत्रपुरीषयोः ॥ जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमसन्निष्ठं भूतावासमिमं त्यजेत् " इति ॥ ( अ० ६ श्लो० ७६-७७ ) इत्यथैवमुक्तेऽर्थे । उक्तं श्लोकरूपं वचनमिति शेषः । शब्दस्पर्शादयो मर्त्येऽनर्था वाऽऽस्थिताः । शब्दस्पर्शादयो हि विषया अनर्था अपि मर्त्ये मरणधर्मिणि भूतात्मन्यर्था इव स्पृहणीया वाऽऽस्थिता अङ्गीकृता न त्वेते स्पृहणीया इति योजना | कुत इत्यत आह A येषां सक्तस्तु भूतात्मा न स्मरेत्परमं पदम् || २ || भूतात्मा येषां सक्तो येष्वासक्तस्तु परमं पदं वैष्णवं धाम न स्मरेन्नानुसंदधीतेत्यर्थः । १ क. सद्बुद्धि' । २ ख इव स्थि' । ३ क इव स्थि । ४ ख येषा सं । ५ग. रेत परं प ६क. 'दं स्वं वै' । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy