________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३७७
[४ चतुर्थः प्रपाठकः] मैन्युपनिषत् ।
अथान्यत्राप्युक्तं महानदीपूर्मय इवानिवर्तकमस्य यत्पुराकृतं अथान्यत्रापीति । अस्य भूतात्मनो यत्पुराकृतं तदनिवर्तकमित्यन्वयः । नास्ति निवर्तकमस्येत्यनिवर्तकम् । पुराकृतं पुण्यापुण्यरूपं कर्म महानदीषर्मय इव पुनः पुनरविच्छेदेन जायमानं यतो भोगेन क्षीयमाणमपि पुनः पुनः पुंसां क्रियमाणत्वान्नोद्वर्तेतातो ब्रह्मज्ञानादन्यन्निवर्तकमस्य नास्तीत्यर्थः । तथा च श्रुती-“स हीदमन्नं पुनः पुनर्जनयते” “स हीदमन्नं धिया धिया जनयते कर्मभिर्यद्ध्येतन्न कुर्यात्सीयेत ह" इति । "भिद्यते हृदयग्रन्थिः” “नान्यः पन्था विद्यतेऽयनाय” इति च ।
सत्कर्म वाऽऽत्मज्ञानं वा संपाद्योत्तरे वयसि कर्मक्षयं करिष्यामीत्याशा न कार्येत्याह
___समुद्रवेलेव दुर्निवार्यमस्य मृत्योरागमैनं समुद्रेति । अस्य भूतात्मनो मृत्योरागमनं मरणप्राप्तिः समुद्रस्योत्सर्पतो वेलेव वेलाधावनमिवानिच्छतोऽपि दुर्निवार्यमस्य मृत्योरागमनमित्यर्थः । यावज्जीवति तावत्यपि काले नेच्छया पुरुषार्थसाधनक्षमभित्याह
सदसत्फलमयैः पाशैः पङ्गुरिव बद्धं बन्धनस्थ.
स्येवास्वातन्त्र्यं यमविषयस्थस्येव बहुभयावस्थं सदसदिति । तत्तत्कर्मोपदर्शितानेकसुखदुःखभोगवासनामयैः पाशैर्बद्धं निगडितं सत्पङ्गुरिव गमने सत्साधनप्रवृत्तावक्षममित्यर्थः । तत्र हेतुमाह-यतो बन्धनस्थस्य बध्यतेऽस्मिन्निति बन्धनं बन्धनागारं तत्स्थस्येवास्वातन्त्र्यमस्य भवत्यतः पङ्गुरिवाकिंचिकरं भूतात्मस्वरूपमित्यर्थः । अतोऽत्र विश्वासो न कार्य इत्यर्थः । इतोऽपि न विश्वासः कार्यो यतो यमस्य दण्डयितुर्विषये गोचरेऽवस्थितस्य यथा बहुविधं भयं तथा बहुभयाविष्टाऽवस्था यस्य तत्तथोक्तं सर्वस्मादपि शङ्कितभयमित्यर्थः । भूतसंघातमभिमन्यमानस्य विवेकोद्गमोऽपि दुर्लभ इत्याह
मदिरोन्मत्त इव मोहमदिरोन्मत्तं पाप्मना गृहीत इव भ्राम्य
माणं महोरगदष्ट इव विषयदष्टं महान्धकारमिव रागान्धम् , मदिरेति । मोहोऽविवेकः स्तब्धता । पाप्मना पापग्रहेण गृहीत इव भ्राम्यमाणं सदैवावशमित्यर्थः । यद्वा ग्रहगृहीत इव पाप्मना पापेन भ्राम्यमाणमिति योजना । विषयदष्टं वासनारूपेण विषयैराविष्टमित्यर्थः । महानन्धकारो यस्मिंस्तन्महान्धकार निशीथं तद्वद्रागो विषयासक्तिः सोऽन्धकार इव हिताहितप्राप्तिपरिहारोपायावरणं तेनान्धमावृतमित्यर्थः ।
१ क, नो निवर्तते । ब । २ ग. ब्रह्मात्मज्ञा । ३ ग. 'न्यतो निव। ४ ख. 'मनस । ५ ख. तन्त्र्यश्य । ६ क. षयावस्थ । ७ ख. 'गान्धकारमि।
४८
For Private And Personal