SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३७६ रामतीर्थविरचितदीपिकासमेता- [४ चतुर्थः प्रपाठकः ] __ अथ चतुर्थः प्रपाठकः। पूर्वस्मिन्प्रपाठक एकस्यैव चिदात्मनो भूतात्मोपाध्यविवेकेन संसारित्वं तद्गतावस्थाभिरवस्थावत्त्वं नानात्वं चेत्येवमादिदोषसंसर्गो न स्वतः स्वतस्तु निर्धर्मको नित्यशुद्ध एवेति प्रतिपादितम् । तदेतदवधार्य भूतात्मभावोपमर्देन शुद्धात्मस्वभावावाप्त्युपायं जिज्ञा. सवो वालखिल्याः पृच्छन्तीत्याख्यायिकामेवानुसरन्ती श्रुतिर्मोक्षसाधनं तत्त्वज्ञानमन्तरङ्गबहिरङ्गसाधनोपेतमुपदेष्टुं प्रवर्तते । ज्ञातव्ये हि विषये निर्धारित तज्ज्ञानोपायजिज्ञासावसर इति संगतिमभिप्रेत्य तदर्थ गुरूपसत्तिं विदधाति ते ह खलु वावोर्ध्वरेतसोऽतिविस्मिता अभिसमेत्योचुर्भगवन्नमस्तेऽस्त्वनुशाधि त्वमस्माकं गतिरन्या न विद्यता इति । ते ह खलु० न विद्यता इतीति । हशब्द ऐतिह्यार्थः । खलुशब्दो वाक्यालंकारार्थः । वावशब्दोऽवधारणार्थः । ऊर्ध्वरेतसः पूर्वोक्ता वालखिल्या ऋषयः । ते ह विस्मिता अवधारणस्यात्रान्वयः । किमिदमद्भुतमिव नित्यशुद्धश्चिदात्माऽस्मत्प्रत्यगात्मा सन्नपि परोक्ष इव शुद्धोऽप्यशुद्ध इवाक्रियोऽपि सक्रिय इवेति विस्मिता एव सन्तः प्रजापतिं गुरुमित्यध्याहारः । अभिसमेत्याऽऽभिमुख्येन सम्यविधिपूर्वकमेत्योचुरुक्तवन्तः । हे भगवंस्ते तुभ्यं नमो नमनमिदमस्तु त्वमनुशाधि शनैः शिक्षयास्माकमस्मानित्यर्थः । अथवाऽस्मानिति पदमध्याहर्तव्यम् । अन्यान्प्रार्थयध्वमिति चेन्नैवं वाच्यमित्यभिप्रेत्योचुरस्माकं त्वच्छिष्याणां गतिर्गन्तव्यं स्थानमन्या त्वदन्या न विद्यतेऽतस्त्वामेव पृच्छाम इत्यर्थः । यदर्थमुपसन्नौस्तमर्थ पृच्छन्तीत्याह अस्य को विधिर्भूतात्मनो येनेदं हित्वाऽऽत्मन्नेव सायुज्यमुपैति तान्होवाचेति ॥ १ ॥ अस्य को विधिः होवाचेतीति । अस्य प्रत्यक्षानुभवसिद्धस्य भूतात्मनो भूतसंघातमात्मत्वेनोपगतस्य को विधिविधानं कः प्रकारो येन विधिनोपायभूतेनेदं भूतात्मत्वं हित्वा विहायाऽऽत्मन्नात्मनि चिदानन्दसत्स्वरूप एव पूर्णात्मनि सायुज्यं सयुग्भावं भूतात्मत्वविलापनेनोपैति निरस्तोपाधितया स्वस्वरूपेऽवतिष्ठते स को विधिस्तं विधिं नो ब्रूहीत्युक्तवन्त इत्यर्थः । तान्होवाचेत्युक्तार्थः ॥ १ ॥ एवं पृष्टः प्रजापतिः प्रथमं वैराग्यदााय भूतात्मनः स्वरूपमुपन्यस्यति यस्मिन्नासक्तः संश्चिदात्मा स्वं रूपं परमं पदं न जानाति तदिदं विचिन्त्यतां तावदिति १ क. विद्यत । २ क. 'द्धचिदा। ३ क. नास्तं पृ। ४ ग. सायोज्य। ५ ग. नि सायोज्यं सा । ६ ग. तिष्ठेत स। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy