SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ ३ तृतीयः प्रपाठकः ] मैन्युपनिषत् । . राजसान्याह अन्तस्तृष्णा स्नेहो रागो लोभो हिंसा रतिदिष्टिावृतत्वमीयाऽकाममस्थिरत्वं चलत्वं व्यग्रत्वं जिगीषार्थोपार्जनं मित्रानु. ग्रहणं परिग्रहावलम्बोऽनिष्टेष्विन्द्रियार्थेषु द्विष्टिरिष्टेष्वभिष्वङ्गः शुक्तस्वरोऽन्नतमस्त्विति राजसान्येतैः परिपूर्ण एतैरभिभूता इत्ययं भूतात्मा तस्मान्नानारूपाण्यामोतीत्या मोतीति ॥ ५ ॥ इति मैन्युपनिषदि तृतीयः प्रपाठकः ॥ ३ ॥ अन्तस्तृष्णा० आमोतीतीति । अप्राप्येऽप्यर्थेऽभिलाषोऽन्तस्तृष्णा । अतस्तृ. प्णेति पाठेऽतः परं राजसान्युच्यन्त इति योज्यम् । स्नेहः पुत्रदारादिषु ममत्वाभिनिवेशः । रागस्तेष्वासक्तिरात्मत्वाभिमानः । लोभो लब्धेषु विषयेष्वलंबुध्यभावः । हिंसा परपीडा । द्विष्टिदे॒षः । व्यावृतत्वं व्यावृताभिप्रायत्वं गूढाभिसंधितेत्यर्थः । ईर्ष्या निरर्थकस्पर्धा । काम्यत इति कामः फलं तदहितं यथा स्यात्तथाऽस्थिरत्वं चाञ्चल्यं निरर्थकप्रवृत्तिमत्त्वमित्यर्थः । यद्वाऽऽकाममाकामत्वमासमन्तात्कामवत्त्वमसंपूर्णकामत्वमित्यर्थः । अत एवास्थिरत्वमेकस्मिन्विषये स्थैर्यरहितत्वम् । चलत्वं चलचित्तत्वमगाम्भीर्यमिति यावत् । व्यग्रत्वं व्यसनिता । धनविद्यादिभिः पराञ्जतुमिच्छा जिगीषा । अर्थस्य पशुधनक्षेत्रादेरुपार्जनं येन केनचनोपायेन संपादनम् । तदर्थं मित्राणामुपकारिणामनुग्रहणं दानमानसत्कारैरनुसरणम् । परिग्रहावलम्बो गृहाश्रमोत्साहः । उत्तरं वाक्यद्वयं स्पष्टार्थम् । अभिष्वङ्गः प्रीत्यतिशयः । शुक्तस्वरोऽव्यक्तस्वरस्तद्वत्त्वमिति यावत् । अन्नतमो बह्वन्नः ख्यात्याद्युद्देशेनान्नदानपरत्वमित्यर्थः । तुशब्दः पूर्वोत्तात्तामसाद्वयवच्छेदार्थः । इत्येवंविधानि राजसानीत्यर्थः । एतैरित्यादिः स्पष्टार्थः । यस्मादेवं तामसै राजसैश्च धर्मेर भिव्याप्तोऽयं भूतात्मा तस्माद्वासनावासिततया पुनः पुनर्नानारूपाण्याप्नोतीति । अभ्यासः प्रपाठकसमाप्तिद्योतनार्थः ॥ ५ ॥ इति श्रीरामतीर्थविरचितायां मैत्रीशाखोपनिषद्दीपिकायां तृतीयः प्रपाठकः ॥ ३ ॥ १ ख. अतस्त' । २ ख. हि सा । ३ ख. नोति । ४ क. व्यसनित्वम् । ५ क. दिभिर्जेतु । क.म् । मि'। ७ ग. 'स्मात्तदा । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy