________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३७४ .
रामतीर्थविरचितदीपिकासमेता- [ ३ तृतीयः प्रपाठकः ] यस्मादेवं देहाभिमाननिबन्धनमात्मनः संसारित्वं तस्माद्देहस्वभावालोचनया देहाभिमानत्यागः कार्योऽसंसारित्वायेति विवक्षन्देहस्य बीभत्सागोचरतामाह
अथान्यत्राप्युक्तं शरीरमिदं मैथुनादेवोद्भूतं संवृद्धयुपेतं निरयेऽथ मूत्रद्वारेण निष्क्रान्तमस्थिभिश्चितं मांसेनानुलिप्तं चर्मणाऽवनद्धं विण्मूत्रपित्तकफमज्जामेदोवसाभिरन्यैश्चाऽऽमयैर्बहुभिः परिपूर्ण
कोश इव वसुंना ॥ ४ ॥ . अथान्यत्राप्युक्तं० इव वसुनेति । प्रथमं मैथुनादेवोदूतं शुक्रशोणितविन्दुरूपं क्रमेण निरये निरयतुल्ये मातुरुदरे संवृद्धयुपेतमङ्गप्रत्यङ्गकेशनखलोमप्रकारैः परिव्यूढम् । अथ नवमे दशमे वा ततोऽप्यधिके वा मासे सति मूत्रद्वारेण योनिरन्ध्रेण निष्कान्तमेवंविधमिदं शरीरं प्रसिद्धमित्यर्थः । अवनद्धं पिहितम् । अन्यैश्चाऽऽमयैरुदरशूलापस्मारादिभिर्बहुभिरसंख्यातैः । कोशो भाण्डागारम् । वसु धनम् । प्रसिद्धार्थमन्यत् । निरयरूपेऽस्मिञ्शरीरे विवेकिनाऽभिमानो न कार्य इत्यभिप्रायः ।। ४ ।।
एवं स्थूलशरीरे वैराग्याय तत्स्वभावमुक्त्वा सूक्ष्मेऽपि शरीरे वैराग्याय तत्स्वभावमु. पन्यस्यति
अथान्यत्राप्युक्तं संमोहो भयं विषादो निद्रा तन्द्री प्रमादो जरा शोकः क्षुत्पिपासा कार्पण्यं क्रोधो नास्तिक्यमज्ञानं मात्सर्य नैष्कारुण्यं मूढत्वं नि
डत्वं निराकृतित्वमुद्धतत्वमसमत्वमिति तामसानि। अथान्यत्राप्युक्तं संमोहो० तामसानीति । संमोहो विपर्ययः । तन्द्रयालस्यम् । प्रमादोऽवश्यकर्तव्येष्ववधानशन्यता । जरा देहधर्मोऽप्यन्तःकरणेन जीर्णोऽहमित्यभिमानात्तद्धर्मान्तरानुक्रान्ता । कार्पण्यं कृपणत्वं सत्यां संपत्तौ कदर्यता ।
"आत्मानं धर्मकृत्यं च पुत्रदारांश्च 'पीडयन् ।
देवतातिथिभृत्यांश्च स कदर्य इति स्मृतः" || इति स्मृतौ कदर्यलक्षणमुक्तं स एवेह कृपणस्तस्य भावः कापण्यमित्यर्थः । नास्तिक्यमामुष्मिके श्रेयसि निरये वा नास्तीति बुद्धिर्वेदाद्यनादरश्च। अज्ञानमपेक्षितार्थास्फूर्तिः । पर_सहिष्णुत्वं मात्सर्यम् । नैष्कारुण्यं नैष्ठुर्यम् । मूढत्वमविवेकित्वं विवेकराहित्यमिति यावत् । अतो न मोहेन पौनरुक्त्यम् । निर्वीडत्वमकार्यकरणेऽनपत्रपत्वम् । निराकृतित्वमनवस्थितस्वभावत्वम् । उद्धतत्वं साहसेषु निःशङ्कत्वम् । असमत्वं विषमबुद्धित्वम् । एतानि तामसानि तमोगुणोद्रेककृतानीत्यर्थः । अन्यत्प्रसिद्धार्थम् ।
• क. रित्वभावाये । २ ख. "प्युक्तश्श। ३ ख. वसुनेति । ४ ख. प्युक्तसं। ५ ख. भय वि । ६ क. तन्द्रा । ७ क. र्मोपान्त । ८ ग. न्तरनु । ९ क. पीरयेत् ।
For Private And Personal