________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३७३
[ ३ तृतीयः प्रपाठकः] मैञ्युपनिषत् । विस्फुलिङ्गभावेनोपैति नानादिक्ष्वनेकधा विप्रसृतो भवतीत्यर्थः । एवं वावैवमेवोक्तदृष्टान्तवत्खल्वसौ भूतात्माऽन्तःपुरुषेणाभिभूतो व्याप्तो गुणैर्देहेन्द्रियान्तःकरणैर्गुणात्मकमायाकार्हन्यमानोऽवच्छिद्यमानो नानात्वमुपैति तत्तद्भूतसंघातभेदेन भिद्यत इत्यर्थः । नानाभावमेव वर्णयति
चतुर्जालं चतुर्दशविधं चतुरशीतिधा
__ परिणतं भूतगणमेतदै नानात्वस्य रूपम् । चतुर्जालं० रूपमिति । चत्वारि जालानि परिच्छेदकानि यस्मिंस्तत्तथा । जरायु: जाण्डजस्वेदजोद्भिज्जरूपैश्चतुर्भिर्जालैरवच्छिन्नमित्यर्थः । चतुर्दशविधं भूरादिचतुर्दशभोगस्थानप्रकारमित्यर्थः । पुनर्जरायुजादीनामवान्तरजातिभेदेन चतुरशीतिधा तावल्लक्षं तावतोऽप्यधिकं वा भेदेन परिणतमुपचितमित्यर्थः । किं तत् । भूतगणं भूतानां गणो यस्मिस्तद्भूतगणं पञ्चमहाभूतसंहननं यदेवंविधमेतद्वै नानात्वस्य भेदस्य रूपं स्वरूपमित्यर्थः ।
उक्तस्य चराचरलक्षणस्य स्वतश्चेतनत्वशङ्कां व्यावर्तयंश्चिदात्मनोऽस्माद्भेदं सूचयति
तानि ह वा एतानि गुणानि पुरु
षेणेरितानि चक्रमिव मृत्पचेनेति । तानि ह वा० मृत्पचेनेतीति । तानि जरायुजादिभेदेन चतुर्विधानि भूरादिभेदेन चतुर्दशविधानि च ह वा एतानि चतुरशीत्यादिप्रकाराणि गुण्यन्ते पुनः पुनरावर्तन्त इति गुणानि पुरुषेणान्तःस्थेनेरितानि मृत्पचेन कुलालेनेरितं चक्रमिव भ्रमन्तीति शेषः ।
इदानीं भूतात्मानुगतस्यापि चिदात्मनो भूतात्मगतावस्थादोषसंस्पर्शाभावं दृष्टान्तेनोपपादयन्संसारित्वासंसारित्वव्यवस्थामाह
अथ यथाऽयस्पिण्डे हन्यमाने नाग्निरभिभूयत्येवं नाभिभूयत्यसौ पुरुषोऽभिभूयत्ययं भूतात्मोपसंश्लिष्टत्वादिति ॥ ३ ॥ अथ यथाऽयस्पिण्डे० संश्लिष्टत्वादितीति । अभिभूयत्यभिभूयते न हन्यत इत्यर्थः । न ह्योष्ण्यप्रकाशस्वभावस्याग्नेः स्वतोऽवस्थाभेदो वक्रवर्तुलस्थूलसूक्ष्मत्वादिलक्षणोऽयःपिण्डाद्युपाधिपरामर्शमन्तरेण निरूपणपथमवतरति । एवमेवासौ पुरुष आन्तरश्चिदात्मा नाभिभूयति नाभिभूयते भूतात्मगतावस्थाभिर्भेदविपर्यासलक्षणैर्न संस्पृश्यते, अत्राप्युपाधिपरामर्शमन्तरेण भेदविपर्यासयोरनिरूपणात, अयं तु भूतात्माऽयःपिण्ड दिभेदेनाऽऽकारवत्तया गृह्यमाणाग्न्याभासवद्भूतसंघातोपसंश्लिष्टत्वात्तदात्माभिमानितयाऽ. नुगतत्वादभिभूयत्यभिभूयते तदवस्थाभिरवस्थावान्भवतीत्यर्थः ॥ ३ ॥
१ ग. मृत्यवेने । २ ग. मृत्यवेन । ३ ख. त्यसो भू। ४ क. "ते हैं । ५ क. यं भू । ६ ग. °ण्डा । ७ क. दात्मताभि ।
For Private And Personal