SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रामतीर्थविरचितदीपिकासमेता- [३ तृतीयः प्रपाठकः ] भोक्ता । स उ इति च्छेदः । उशब्दोऽप्यर्थे । सोऽपि परोऽप्यस्ति मादृशो मम मित्रं शत्रुरुदासीनो वा । इदमिति देहबाह्यं परिकल्प्य तच्च ममेति शोभनाध्यासपुरःसरमात्मीयतयाऽभिमन्यतेऽर्थादशोभनाध्यासान्न ममेति च । एवं मन्यमानोऽभिमन्यमान आत्मना स्वेनैवाऽऽत्मानं निबध्नाति । बन्धनमात्रे दृष्टान्तमाह जालेनेव खचरः कृतस्यानु फलैरभिभूयमानः सदसद्योनिमाप यता इत्यवाञ्चयो; वा गतिद्वंद्वैरभिभूयमानः परिभ्रमति जालेनेव खचर इति । पक्षीवेत्यर्थः । अथवा खचरः कोशकारो वृक्षकोटराकाशे चरणात् । स यथाऽऽत्मनैव कोशं कृत्वा तेनाऽऽत्मानं निबध्नाति तद्वदित्यर्थः । एवं कुर्वन्कृतस्य कर्मणः शुभाशुभलक्षणस्यानु पश्चादवश्यंभाविफलैः सुखदुःखैरभिभूय. मानः परवशीक्रियमाणः पुनः सदसद्योनिमापद्यत इत्यादि व्याख्यातम् । पुनरप्यस्य विशेषनिज्ञासया पृच्छन्ति कतम एष इति तान्होवाचेति ॥२॥ कतम एष इतीति । उत्तरमुत्थापयति-तान्होवाचेति ॥२॥ भूतात्मनश्चिदात्मनश्च वस्तुतो यद्यभेदस्तहि कथं भूतात्मनि संसरति तदभिन्नश्चि. दात्मा न संसारी भवेदिति पृष्टो दृष्टान्तेन व्यवस्थामुपपादयिष्यन्नुक्तावात्मानौ परामशति अथान्यत्राप्युक्तं यः कर्ता सोऽयं वै भूतात्मा करणैः कारयिताऽन्तःपुरुषः । अथान्यत्राप्युक्तं० पुरुष इति । अथैवमेवान्यत्रापि शाखान्तरेऽप्युक्तं किं यः कर्ताऽस्मिञ्शरीरे सोऽयं वै भूतात्मा यस्तु करणैः संनिधिसत्तामात्रेण स्वप्रेरितैः करणैः कारयिता सोऽन्तःपुरुषश्चिदात्मेति, एतदन्यत्राप्युक्तमित्यर्थः । अन्तःपुरुषव्याप्तस्य भूतात्मनो नानात्वापत्तिं सदृष्टान्तामाहान्तरपुरुषस्य स्वतोभेदशङ्काव्यावृत्तये अथ यथाऽग्निनाऽयस्पिण्डोऽन्यो वाऽभिभूतः कर्टभिहन्यमानो नानात्वमुपैत्येवं वाव खल्वसौ भूता स्माऽन्तःपुरुषेणाभिभूतो गुणैर्हन्यमानो नानात्वमुपैति । अथ यथा० उपैतीति । अथेदमुच्यते यथाऽग्निना प्रसिद्धेनाभिभूतो व्याप्तोऽयःपिएंडोऽन्यो वा काष्ठादिपिण्डः संतप्तः कर्तृभिर्लाहकारादिभिर्हन्यमानस्ताड्यमानो नानात्वं १ ख. गतीर्द्व । २ ख. मतीति ॥ २ ॥ ३ ख. प्युक्त श्यः । ४ ख. ग. 'ण्डो वा । ५ ख. 'त्येवश्वा । ६ ग. ण्डो वा । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy