SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ ३ तृतीयः प्रपाठकः ] मैत्र्युपनिषत् । अथामृतोऽस्याऽऽत्मा बिन्दुरिव पुष्करा इति स वा एषोऽभिभूतः प्राकृतैर्गुणैरिति । अथामृतोऽस्याऽऽत्मा० गुणैरितीति । अथैवमप्यस्य भूतात्मनोऽप्य मृतोऽविकारः कूटस्थ आत्मा स्वरूपं पुष्करे पद्मपत्रे बिन्दुरिव नीरबिन्दुरिव तत्संश्लेषरहितोऽपि स वा एष आत्मा प्राकृतैर्गुणैः प्रकृतिविकारैः साभासमायाविकाररूपदेहद्वयलक्षणैरभिमानगृहीतैराभिभूतस्तिरस्कृतस्वभावावभास इत्यर्थः । अथोऽभिभूतत्वात्संमूढत्वं प्रयातः संमूहत्वात् यत एवम्-अथोऽभि० संमूढत्वादिति । अथो अतः कारणात्। संधिश्छान्दसः । तदेवाऽऽह-अभिभूतत्वात्प्राकृतैर्गुणैरेकीभूतत्वात्संमूढत्वमत्यन्ताविवेकित्वं प्रयातः प्राप्तवान् । तत्रेदं लिङ्गमुच्यते । संमूढत्वादेव हेतोर्भगवन्तं नापश्यदिति संबन्धः । न पश्यतीत्येतत् । स्वतःसिद्धालुप्तज्ञानेश्वर्यादिशक्तिसंपन्नतयोपलक्षितचिदात्मा भगवान्तं न पश्यतीति संमूढत्वमस्यावगम्यत इत्यर्थः । तस्य दूरस्थत्वाददर्शनं नास्य संमूढत्वादिति शङ्कां वारयति आत्मस्थं प्रभुं भगवन्तं कारयितारं नापश्यद्गुणौघैरुह्यमानः कलुषीकृतश्चास्थिरश्चञ्चलो लुप्यमानः सस्पृहो व्यग्रश्चाभिमानित्वं प्रयाता इत्यहं सो ममेदमित्येवं मन्यमानो निबध्नात्यात्मनाऽऽत्मानम् । आत्मस्थमिति । स्वात्मनि सत्तास्फूर्तिरूपेण स्थितमित्यर्थः । कथमयं स्वात्मस्र्थ इत्यत आह-प्रभुमिति । प्रकर्षेण भवत्यस्मादिति प्रभुर्भूतात्मन उपादानमधिष्ठानं चेत्यर्थः । अत एव कारयितारं नियन्तारं कारणाधीनं हि कार्यमिति न्यायात्कारणत्वादेव नियन्तेत्यर्थः । तथा च श्रुत्यन्तरम् " एष ह्येव साधु कर्म कारयति तं यमेम्यो लोकेभ्य उन्निनीषत एष उ एवासाधु कर्म कारयति तं यमधो निनीषते " ( कौषी० अ० ३ ) इति । किंच गुणौघैः प्राकृतिकैदेहेन्द्रियविषयलक्षणैरुह्यमान इतस्ततश्चाल्यमानः कलुषीकृतश्च नानावासनाकषायरञ्जितश्चेत्यर्थः । अत एव वासनाभिः प्रेर्यमाणत. याऽस्थिरः कथंचिदुत्पद्यमानेऽपि विवेकविज्ञाने स्थैर्यहीनः । अतश्चञ्चलः शुभविषयैकप्रवृत्तिनिष्ठारहित इत्यर्थः । किंच लुप्यमानश्वाञ्चल्यवशाद्विवेकज्ञानधर्मसंचयैलृप्यमानोऽत एव सस्पृहोऽप्राप्तेऽशक्यसंपायेऽपि स्पृहावानत एव व्यग्रोहीनः सुखभोगक्षणमलभमानश्चेति यावत् । सर्वस्यापि विशेषणजातस्य मूलमिदमुच्यते-अभिमानित्वं प्रयात इति । इति शब्द इत्यमर्थे । कथमित्येतदाह-अहमिति । अहं मनुष्यः कर्ता १ ग. "त्माद्विन्दु । २ क. कर इ । ३ ग. त्रेऽद्विन्दुरिव नी' । ४ क. पभेदद्व । ५ क. 'भावोऽव। ६ क. सत इ । ७ ख. "त्यहा५सो । ८ क. मस्य स्वा । ९ क.स्थत्वमित्य । १० क. 'नादिभिः । ११ क. दीनः । १२ क. सुखं भो। १३ क. गत्वलक्ष । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy