________________
Shri Mahavir Jain Aradhana Kendra
३७०
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रामतीर्थविरचितदीपिका समेता - [ ३ तृतीयः प्रपाठकः ]
पञ्चतन्मात्रा भूतशब्देनोच्यन्तेऽथ पञ्चमहाभूतानि भूतशब्देनोच्यन्तेऽथ तेषां यत्समुदयं तच्छरीरमित्युक्तमथ यो ह खलु वाव शरीर इत्युक्तं स भूतात्मेत्युक्तम् ।
I
पञ्चतन्मात्रा० भूतात्मेत्युक्तमिति । शब्दस्पर्शरूपरसगन्धाः सूक्ष्माः पञ्चतन्माश्राख्या अव्याकृताख्योदविद्याशचलितादात्मनः सकाशात्क्रमेण जाता भूतशब्देनापञ्चीकृतपञ्चमहाभूतशब्देनोच्यन्ते वेदान्तेषु । अथानन्तरमेतान्येव परस्परानुप्रवेशेन पञ्चीकृतानि गुणगुणिभावेन परिणम्य स्थितानि पञ्चमहाभूतानि भूतशब्देनोच्यन्त इत्यर्थः । अथैवं सति तेषामुभयविधभूतानां यत्समुदयं यः समुदायः परिणाम विशेषस्तच्छरीरमित्युक्तं वेदान्तेष्विति योज्यम् । प्राणेन्द्रियान्तःकरणसहितसूक्ष्मभूतसमुदायो लिङ्गशरीरं पञ्चीकृतपञ्चमहाभूतसमुदायः स्थूलं शरीरमित्युक्तमिति विभागः । एवं भूतशब्दार्थं सकामुक्त्वाऽऽत्मशब्दार्थमाह- अथेति । अथैवं संपन्ने शरीरद्वयात्मना भूतजाते तस्मि शरीरे यो ह खलु वाव य एव ह स्फुटं खलु निश्चये वावाहं ममेति रथित्वेन व्यहर्तेत्युक्तं पूर्वं स भूतात्मेत्युक्तं वेदान्तेष्वित्यर्थः । तथाच वेदान्ताः - " तस्माद्वा एतस्मादात्मन आकाशः संभूतः" इत्यादिना सृष्टिमुक्त्वा " तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य सच्च त्यच्चाभवत् " ( तैत्ति० उ० ) इत्यादिकाः । तथा " तत्तेजोऽसृजत इत्यादिना भूतसूक्ष्मसृष्टिं प्रक्रम्य “ सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणि " ( छान्दो० अ० ६ ) इति । तथा आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत्स ईक्षत लोकान्नु सूना इति स इमालोकानजत" इत्युपक्रम्य शेषे “ स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत " ( ऐत० उ० ) इति । एवं तत्र तत्र " स एष इह प्रविष्ट आ नखाग्रेभ्यः" इत्यादिश्रुतयः सन्ति शतशः । इहापि पुरस्तादेतदुक्तम् " प्रजापतिर्वा एकोऽग्रेऽतिष्ठत् " इत्यारभ्य "स वायुरिवाऽऽत्मानं कृत्वाऽभ्यन्तरं प्राविशत् " इति । एतदेव पुनः स्पष्टी करिष्यते । तथाच चिदात्मैव भूतसंघातमनुप्रविष्टो भूताभेदेन गृह्यमाण उपाधिप्रधानत्वाद्भूतात्मेति चिदात्मनो भेदेन व्यपदिश्यते चिदात्मा चोपाधिभ्यो विविच्य वेदान्तेष्वात्मा ब्रह्म चिन्मात्रं प्रज्ञानघन इत्यादिशब्दैर्भूतात्मनो भेदेन व्यपदिश्यते तदेवमस्त्यस्यैवाऽऽत्मन औपाधिको भेद इति संसार्यसंसारिभेदव्यवहारोऽनाद्यविद्यानिबन्धन उपपद्यत इति प्रकरणार्थः ।
21
46
इदानीं चिदात्मन एवं भूतात्मत्वं चिदात्मस्वभावानुपमर्देनेति व्युत्पादयति —
१ ख. 'त्युक्त५ स । २ क. 'ख्यावि। ३ क. "मभू' । ४ क. वहृतमित्युं । ५ क. त्याचा " स |
For Private And Personal