SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३६८ रामतीर्यविरचितदीपिकासमेता-[ २ द्वितीयः प्रपाठकः ] नन्ववस्थात्रयसंबन्धिनः कथमहंकारममकारयोरभावस्तत्राऽऽह-अनवस्थ इति । अवस्थात्रयरहितोऽवस्थासाक्षित्वात् । न हि दृश्यधर्मो द्रष्टर्युपरज्यत इत्यर्थः । अथवा ननु शरीरेषु चरतः कथं तत्राहंममताभाव इति तत्राऽऽह-अनवस्थ इति । न विद्यतेऽवस्थाऽवस्थानं यस्य सोऽनवस्थः । निरवयवस्यामूर्तादिलक्षणस्याव्यावृत्ताननुगतस्य न क्वाप्यवस्थितिरुपपद्यत इति भावः । ननु धर्माधर्माभ्यां शरीरादिकर्तुः कथमित्थमसंसारित्वं वर्ण्यत इत्यत आह । असतीति । अव्याकृतशब्दितमज्ञानमसदित्युच्यते । अकतैवासत्यवस्थोऽवस्थितः कर्तेत्यन्वयः । वस्तुतोऽकतैव सन्नज्ञानावेशात्कर्तेवावभासत इत्यर्थः । एवमध्यारोपापवादाभ्यां विचार्य निणीतमात्मनः स्वरूपं व्यपदिशति स वा एष शुद्धः स्थिरोऽचलवालेप्योऽ. व्यग्रो निस्पृहः प्रेक्षकवदवस्थितः स्वस्थश्च । स वा इत्यादिना । सवितरि दिवान्धपरिकल्पितान्धकारवदज्ञानस्यापि वस्तुत्वाभावादयमात्मा शुद्धो मिथ्याज्ञानाद्यशुद्धिसंसर्गरहितः सर्वस्याऽऽगमापायसाक्षित्वात्स्थिर आगमापायशून्यो व्यापकत्वादचलः स्वतः क्रियाशून्यः । चकारादनन्यप्रेर्योऽपीत्यर्थः । अत एवालेप्यो धर्माधर्मतत्फललेपानहः । न खक्रियोऽकर्ता कर्मतस्फलभाग्भवतीत्यर्थः । अव्यग्रोऽसंभ्रमो यतो निस्पृहः परिपूर्णपरमानन्दरूपत्वात् । स्पृहणीयाभावात्स्पृहाभावे सत्यव्यग्र इत्यर्थः । अत एव प्रेक्षकवदुदासीन इवावस्थितः । कुत्रावस्थित इति तदाह । स्वस्थः स्वे स्वरूपेऽवस्थितो नान्याधार इत्यर्थः । “स एवाधस्तात्स उपरिष्टात्स पश्चास पुरस्तात्स दक्षिणतः स उत्तरतः स एवेदं सर्वम्" ( छान्दो० अ० ७ ) इति श्रुत्यन्तरात् । चकारः सर्वविशेषणसमुच्चयार्थः । उपसंहरतिऋतभुग्गुणमयेन पटेनाऽऽत्मानमन्तर्धायावस्थिता इत्यवस्थिता इति ॥७॥ इति मैञ्युपनिषदि द्वितीयः प्रपाठकः ॥ २॥ ऋतभुगिति । एवंविध एवाऽऽत्मा गुणमयेन पटेन त्रिगुणाविद्यामयेनोंऽऽवरणे. नाऽऽत्मानं नित्यशुद्धत्वादिरूपमन्तर्धायर्तभुगवस्थित इत्यन्वयः । कर्मफलभोक्ता संसारीव भासमानो वर्तत इत्यर्थः । इतिशब्दः प्रतिवचनसमाप्तिद्योतनार्थः । अभ्यासोऽध्यायसमाप्त्यर्थः ।। ७ ॥ इति श्रीरामतीर्थविरचितायां मैत्रीशाखोपनिषद्दीपिकायां द्वितीयः प्रपाठकः ॥ २॥ १ द्रष्टारमुप । २ क. 'स्थित ई । ३ ख. मैत्रायणीयोप । ४ क. 'नाऽऽत्मा । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy