________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[२ द्वितीयः प्रपाठकः ]
मैत्र्युपनिषत् ।
यदिदं स्वसृष्टदेहाद्यनुप्रवेशेनास्य संसारित्वमुक्तं तन्नायं स्वतः संसारधर्मवान्कितूपाधिवशात्तथा भाति, तत उपाधेर्विविच्य तत्स्वरूपमन्वेषणीयमात्मनः संसारित्वभ्रमनिवृत्तय इति दर्शयितुमुक्तं हेयस्वरूपानवगमे तद्धानासंभवादित्यभिप्रेत्यायमेवाऽऽत्मा मुलादिषीकावद्देहादिसंघाताद्विविच्यावधारणीय इत्याह
३६७
स वा एष आत्महोशन्ति कवयः
स वा एषेति । यमित्यध्याहारः । यमुशन्ति कमनीयतया जानन्ति कवयो मेधाविनः परमप्रेमास्पदतया प्रत्यग्रूपेण जानन्ति स वै स एवैष आत्मा न तु संसार्येवेत्यर्थः ।
3
ननु संसारिताया अस्योक्तत्वात्कथं न संसारीति तत्राऽऽह -
सितासितैः कर्मफलैरनभिभूत इव प्रतिशरीरेषु चरति
सितासितैरिति । सितशब्देनोज्ज्वलवाचिना स्पृहणीयतोच्यते । असितशब्देन मलिनवाचिना प्रतिकूलवेदनीयतोच्यते । तथा च सितासितैः सुखदुःखैः कर्मफलैरनभिभूतोऽसंस्पृष्टः । इवशब्दोऽवधारणार्थः । प्रतिशब्दो व्यवहितक्रियया संबध्यते कर्मफलैरनभिभूत एव शरीरेषु प्रतिचरतीत्यन्वयः । प्रतिशरीरेषु शरीरेषु शरीरेष्विति वा । यद्वाँ प्रति प्रातिलोम्येनाविषयत्वेन शरीरेषु चरतीत्यर्थः । अतो नायं स्वरूपतः संसारी किंत्वलक्तकादिसंनिहितो लोहितात्मनेव स्फटिकः संघातोपाधिसंनिहितः संसार्यात्मना भासत इति भावः ।
अव्यक्तत्वात्सौक्ष्म्याददृश्यत्वादप्राद्यत्वाभिर्ममत्वाच्चानवस्थोऽसति कर्ताऽकर्तेवावस्थः
उक्तेऽर्थे हेतुमाह-अव्यक्तत्वादित्यादिना । व्यक्तं विषयरूपं दृश्यं देहायज्ञानपर्यन्तं तद्विपरीतत्वमव्यक्तत्वं तस्मात् । न हि संसार्यव्यक्तो भवति व्यक्तविकारानुबन्धित्वात्तस्य । अतोऽव्यक्तत्वान्न संसारीत्यर्थः । कुतोऽव्यक्तत्वं चिदात्मनोऽहमिति व्यक्ततयोपलभ्यमानत्वादित्यत आह-सौक्ष्म्यादिति । अनाधेयातिशयत्वं सौक्ष्य्यमुच्यते, न हि चैतन्यस्वरूपेऽमूर्तेऽनवयवे कश्चिदतिशय आधीयत आकाश इव कारकैः । यत्र पुनः कारकव्यापारापन्नोऽतिशयस्तद्व्यक्तमिति प्रसिद्धं यथा घटादि निष्पाद्यं प्रकाश्यं चेति तस्मादस्य तद्वैलक्षण्यात्सौक्ष्म्यादव्यक्तत्वमिति भावः । तदेवोक्तलक्षणं सौक्ष्म्यं साधयति — अदृश्यत्वादग्राह्यत्वाच्चेति । ज्ञानकर्मेन्द्रियाविषयत्वादित्यर्थः । चतुर्विधक्रियाफलविलक्षणत्वादिति भावः । हेत्वन्तरमाह - निर्ममत्वाच्चेति । चकारानिरहंकारत्वमपि समुच्चीयते । यत्राहंता भवति तत्संसृष्टे ममता भवति, अस्य तु सुखाद्युपलब्ध्यायतने शरीरेऽनुगतस्यापि तत्राहंकार ममत्वयोरभावान्न संसारितेत्यर्थः ।
For Private And Personal
१ क. 'शेन तस्य । २ क. इतीदमु ं । ३ क. 'रितयाऽस्यो । ४ ग. मत्वचवा । ५ ग. सर्वेषु । ६. द्वाप्रा । ७. मकारयो ।