SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३६६ रामतीर्थविरचितदीपिकासमेता - [२ द्वितीयः प्रपाठकः ] पमस्येत्याकाशात्मा । एवमु॑पाधिधर्मैः स्वधर्मैश्वाविविक्त आत्मा जीवभावमुपगत इत्यर्थः । तञ्चोक्तं श्वेताश्वतरोपनिषदि - " बुद्धेर्गुणेनाऽऽत्मगुणेन चैव आराममात्र रोsपि दृष्टः" इति । ऽप्यव य एवमविद्याकृतोपाधिमात्मत्वेनोपगतो विस्मृतपरमानन्दनिजस्वभावैः सोऽकृतकृत्यमात्मानं मेन इति तद्वृत्तान्तमाह स वा एषोऽस्मादन्तरादकृतार्थोऽमन्यतार्थानश्नानीति । स वा० अश्वानीतीति । स वा एष पूर्वोक्तोऽकृतार्थोऽकृतप्रयोजनः सन्नस्मादेत - च्छरीरगताद्धृदन्तराद्धृदयस्थानस्थादन्तःकरणाद्धेतुभूतादर्थान्विषयानश्नानि भुञ्जे व्याप्तवानीति वा मन्यत संकल्पितवानित्यर्थः । ततः किं वृत्तं तदाह अतः खानीमानि भित्त्वोदितः पञ्चभी रश्मिभिर्विषयानत्ति । अतः ० विषयानत्तीति । यत एवमत इमानि शीर्षण्यानि खानि च्छिद्राणि त्वचं भित्त्वा विदार्योदित उद्गतो गवाक्षेभ्य इवाऽऽलोकः प्राणान्तः करणोपाधिः सन्वक्ष्यमाणैः पञ्चभी रश्मिभिर्विषयाशब्दस्पर्शादीनत्ति भुङ्क्ते व्याप्नोतीत्यर्थः । इदानीमस्य लोकसिद्धं विषयानुभवप्रकारमनुवदञ्शरीरादे स्थादिकल्पनां विदधानोऽस्य विषयमोक्षप्राप्तिमार्गयोः स्वातन्त्र्यं दर्शयति इति बुद्धीन्द्रियाणि यानीमान्येतान्यस्य रश्मयः कर्मेन्द्रियाण्यस्य हया रथः शरीरं मनो नियन्ता प्रकृतिमयोऽस्य प्रतोदोऽनेन Ε खल्वीरितः परिभ्रमतीदं शरीरं चक्रमिव मृत्पचेनेदं शरीरं चेतनवत्प्रतिष्ठापितं प्रचोदयिता वैषोऽप्यस्येति ।। ६ ।। इति बुद्धी ० वैषोऽप्यस्येतीति । इत्येवं विषयान्भुञ्जानस्य यानीमानि प्रसिद्धानि बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाप्राणाख्यानि तान्यस्य रथिनो हयरश्मयः प्रग्रहाः । कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थाख्यान्यस्य हया रथवाहाः । शरीरमिदं स्थूलमेव रथः । मनः संकल्पाद्यात्मकं नियन्ता नितरां यन्ता सारथिरित्यर्थः । प्रकृतिः स्वभावः कर्मज्ञानवासना तन्मयस्तद्रूपोऽस्य प्रतोदः कशादिर्वाहननोदनसाधनम् । कथमयं प्रतोद इति तदुपपादयति । अनेनेति । अनेन प्रकृतिमयेन खलु निश्चितमीरितः प्रेरितः परिभ्रमति । किमिदं शरीरं रथः । तत्र दृष्टान्तमाह । चक्रमिवेति । मृत्पचः कुलालस्तेनेरितं चक्रमिवेत्यर्थः । इदं शरीरमित्याद्युक्त्तार्थम् || ६ || 1 १. मुक्ता । २ क. 'त्रो ह्यव' । ३ क. 'वः कृत । ४ ख. ए३षोऽ । ५ क. भित्त्वोदि । ६ ख. 'रितं प ं । ७ ग. मृत्यवेने । ८ क. 'स्थान्य' । ९ ग. मृत्यवः कु । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy