SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ २ द्वितीयः प्रपाठकः ] मैत्र्युपनिषत् । ३६५ 1 अन्यत्रा० शृणोतीति । अन्यत्र बृहदारण्यके ऽपीत्यर्थः । अयमग्निर्वैश्वानरः पुरुषाख्यो योऽयं प्रसिद्धोऽन्तः पुरुषे पुरुषः शरीरं शरीरमध्ये । तत्सद्भावे कार्यलिङ्गकं प्रमाणमाह — येन पुरुषान्तःस्थेनेदं वक्ष्यमाणमन्नं पच्यते पानस्याप्युपलक्षणमेतत् । किं तदन्नं तदाह - यदिदमद्यतेऽविशेषेण सर्वैः प्राणिभिर्यदिदमोदनाद्यद्यते यद्वा पीयते तदन्नं पानं चेदं येन पच्यते परिपाकं नीयतेऽयमग्निर्वैश्वानर इत्यन्वयः । तत्सद्भावेऽनुमानमुक्त्वा प्रत्यक्षमप्याह तस्येति । तस्याग्रेष प्रसिद्धो घोषः शब्दो भवति । कोऽसौ । यं घोषम् । एतदिति क्रियाविशेषणमेवं श्रवणं यथा स्यात्तथेत्येतत् । कर्णावपिधायाऽऽच्छाद्य शृणोति सर्वो लोकः । एवमेष घोषोपलम्भो जाठराग्नौ प्रत्यक्षमित्यर्थः । तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेरिव ज्वलत उपशृणोति ( छान्दो० अ० ३ ख० १३ ) इति च्छान्दोग्ये तस्याग्नेरेवैतच्छ्रवणमिति भाष्यकारैर्व्याख्यातत्वात् । जाठराग्नर्वैश्वानरात्मनो घोषरूपेण श्रवणनिर्देशप्रसङ्गेनेदमपरमुच्यते पुरुषाणां पारलौकिक हितसाधनप्रवृत्तौ सावधानत्वाय । स पुरुषो घोषश्रवणवान्यदा यस्मिन्काल उत्क्रमिष्यन्मरिष्यन्भवति तदैनं घोषं न शृणोति । तदश्रवण आसन्नमरणतां ज्ञात्वा यत्करणीयं मन्येत तत्कुर्यादित्यभिप्रायः । Acharya Shri Kailashsagarsuri Gyanmandir एवं प्रासङ्गिकं परिसमाप्य प्रकृतमेवानुवर्तयितुमुक्तार्थमनुवदति ――――― - स वा एष पञ्चधाऽऽत्मानं विभज्य निहितो गुहायाम् । सवा० गुहायामिति । स वा एष यो वैश्वानरः पुरुष इति चोक्तः प्राणाद्यात्मना पञ्चधाऽऽत्मानं विभज्य गुहायां गूहति संवृणोति ज्ञानानन्दाद्यतिशयमिति गुहा बुद्धिस्तस्यां निहितः स्वयमेव स्वात्मना निषक्त इत्यर्थः । विशेषव्यवहारायान्तःकरणोपार्षि प्राप्त इति तात्पर्यार्थः । तदेवमौष्ण्येन स्वरूपेण प्राणान्तः करणभावमापन्नो विज्ञानात्मा यां यामवस्थामनुभवति तां तां क्रमेण वक्तुमारभमाणो वृद्धितत्स्थाभासाविवेकात्प्राप्तान्व्यपदेशभेदांस्तावदाह For Private And Personal मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प आकाशात्मेति । मनोमयः० आकाशात्मेतीति । मनोमयो मनःप्रायो मनोवृत्तिभेदेष्वशेषेषु विशेषत उपलभ्यमानत्वात् । प्राणः शरीरमस्येति प्राणशरीर: प्राणभेदैरेव व्याप्रियमाणत्वात् । अन्यथा चिन्मात्रस्य कूटस्थस्य स्वतो विशेषैभानव्यापारयोरनुपपत्तेः । भाश्चित्प्रकाशो रूपं स्वरूपमस्येति भारूपः । सत्याः संकल्पा अवश्यंभाविनः पूर्वकृतज्ञानकसंस्कार भाविताः संकल्प अस्येति सत्यसंकल्पः । आकाशवदसङ्गोऽग्राह्य आत्मा स्वरू १ क. 'निदर्शनप्र । २ क. 'वेकेन प्राप्ता । ३ ग. मान ।
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy