________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रामतीर्थविरचितदीपिकासमेता-[ २ द्वितीयः प्रपाठकः] एवमात्मनः प्राणोपाधिकस्य शरीरप्रवेशमुक्त्वा तद्व्यापारेण व्याप्रियमाणः शरीरं नियमयतीत्युक्तमिदानी जाठराग्न्युपाधिकस्य शरीरे चेतयितृत्वं दर्शयितुं तदभिव्यक्तिं तावदाह
अथोपांशुरन्तर्याममभिभवत्यन्तर्याम उपाशुं चैतयोरन्तरा देवीष्ण्यं प्रासुवद्यदौष्ण्यं स पुरुषोऽथ यः पुरुषः सोऽग्निर्वैश्वानरः । अथोपांशुः वैश्वानर इति । अथैतदुच्यत इति, अथशब्दोऽर्थान्तरोपक्रमार्थः । अस्ति कर्मकाण्ड उपांशुग्रहोऽन्तर्यामग्रहश्चेति द्वौ ग्रहौ परस्परोपकार्योपकारकभावेन संसृष्टावित्याम्नातम् । यतः श्रूयते--"प्राणापानौ वा उपांश्वन्तर्यामौ व्यान उपांशुसवनो यदेते पात्रे एतं ग्रावाणमातृतीयसवनान्न नहीतः” इति । तथाऽन्यत्रापि"अग्निर्देवता गायत्री छन्द उपांशोः पात्रमसि, सोमो देवता त्रिष्टुप्छन्दोऽन्तर्यामस्य पात्रमसि" इति मन्त्रयोरनयोरग्नीषोमदेवेंत्यताऽधिगम्यते । तौ च प्राणापानात्मकत्वेनाध्यात्मशास्त्रे प्रसिद्धौ । अत इहोपांश्चन्तर्यामशब्दाभ्यां प्राणापानौ गृह्यते । तथा चायमर्थः । यथोपांशुग्रहोऽन्तर्यामममिलक्ष्य भवत्यन्तर्यामग्रहश्वोपांशुं तयोश्चान्तरा सोमः सूयते तथाऽत्रापि शरीरे प्राणोऽपानमभिभवत्यपानश्च प्राणमित्यन्योन्याभिका
क्षया प्रवर्तमानयोरुपांश्वन्तर्यामोपमितयोश्चैतयोः प्राणापानयोरन्तराऽन्तराले देवो द्योतनस्वभावश्चैतन्यात्मौष्ण्यमुष्णस्वभावमात्मानं प्रामुवत्प्रसूतवानुष्णरूपेणाभिव्यक्त इत्यर्थः। देवौष्ण्यमिति संधिश्छान्दसः । यद्वैतयोरन्तरं मध्यं मूलाधारदेशस्तस्मात्प्राणापानाम्यां पार्श्वगताभ्यां धन्यमानादेव न स्थानान्तरादिति यावत् । औष्ण्यं प्रासुवदिति पूर्ववत् । यदिदमौष्ण्यं स पुरुषो जीवो देहस्याग्निरूपेण धारयिता । उष्मरूपात्मावस्थाने हि जीवतीति प्रसिद्धिस्तदपगमे च मरणप्रसिद्धिः । तथा च श्रुत्यन्तरम्-"उष्णो जीविष्यशीतो मरिष्यन्” इति । अथैवं सति यः पुरुष आत्मा सोऽग्निरगं नयतीत्यग्रणीरग्निरुच्यते । अयं हि सर्वधातुजातं पचन्नग्रं नयत्यतोऽग्निर्वैश्वानर इति चायमुच्यते । विश्वं सर्वं नरशब्दोपलक्षितं देहादिकं नयत्युत्तम्भयतीति विश्वानरो विश्वानर एवं वैश्वानर इति ।
एतदेव पुरुषाग्न्योरेकत्वमिहोक्तं सिद्धवत्कृत्य शाखान्तरे जाठरस्याग्नेरुपासनमुक्तं तदिह प्रसङ्गादुपदिशति
अन्यत्राप्युक्तमयमग्निर्वैश्वानरो योऽयमन्तःपुरुषे येनेदमन्नं पच्यते यदिदमद्यते तस्यैष घोषो भवति यमेतत्कर्णावपि
धाय शृणोति स यदोत्क्रमिष्यन्भवति नैनं घोषं शृणोति १ क. पांश्वन्त। २ क. 'पांशु चै। ३ ख. षो यः । ४ क. एवं । ५ क. 'वताऽधि। ६ क. "स्त्रेषु प्र । ७ ख. रोऽय।
For Private And Personal