________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ २ द्वितीयः प्रपाठकः] मैन्युपनिषत् ।
चैतेषामन्तरा प्रसूतिरेवोदानस्याथ योऽयं पीता
शितमुद्गिरति निगिरतीति वैष वाव स उदानः । अथायं० उदान इति । अथैषां मध्ये योऽयं वायुरूर्ध्वमुत्क्रामति नाभेरुवं शिरःपर्यन्तमुच्चैः कामति संचरति मुखनासिकयोरुपलभ्यमान एष वाव स स एष एव प्राणः प्राणसंज्ञो वायुभेद इत्यर्थः । एवंविधक्रियावत्त्वमेवास्य लक्षणमुक्तं वेदितव्यम् । एवमुत्तरत्रापि योजना । अथ योऽयं वायुविशेषोऽवाङ्नामेरधः पायुपर्यन्तं संक्रामति संचरत्येष वाव सोऽपान इति पूर्ववद्योजना । उद्देशक्रमं परित्यज्य मध्ये व्यानं लक्षयति तस्य प्राणापानसंधित्वेन तयोरन्तरा नियतत्वात् । तथा च श्रुत्यन्तरम् –“अथ यः प्राणापानयोः संधिः स व्यानः' इति । चरमतोऽस्योद्देशस्तु सर्वशरीरचेष्टादिहेतुत्वेन सर्वप्राणव्यापकत्वादिति द्रष्टव्यम् । अथ येन वायुविशेषेणैतैतौ प्राणापानावनुगृही. ताऽनुगृहीतावित्येवं वर्तमान एष वाव स व्यानसंज्ञः । “अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मनः" इत्यादिश्रुत्यन्तरप्रसिद्धिमादायाशितस्य जाठराग्निपक्वस्य स्थूलसूक्ष्मविभागविनियोजनकर्ता समान इति व्युत्पादयति । अथ योऽयं प्रसिद्धो वायुविशेषोऽन्नस्य भुक्तस्य स्थविष्ठः स्थूलतमो धातुरसारभागः पुरीषाख्यो योऽस्ति तमपाने प्रापयत्यपानवायुसंचारस्थानं गमयति । तथाऽन्नस्य यो वाऽस्त्यणिष्ठोऽणुतरो मध्यमश्चेति भागद्वयमेकीकृत्योच्यते । तं च देहमनःस्थितिहेतुमङ्गेऽङ्गे प्रत्यङ्गं शरीरस्य समानयति सम्यगासमन्तान्नयति प्रापयत्येष वाव स समानसंज्ञा समानसंज्ञ इत्यर्थः । समानव्यानयोर्मध्य उदानस्योद्देशे कारण सूचयन्नुदानस्याभिव्यक्तिस्थानमाह-उत्तरमिति । एतेषां प्राणापानप्तमानानामुत्तरमुपर्येतेषां सम्यग्व्यापारानन्तरं व्यानस्य रूपं च व्यानव्यापारं चान्तरा मध्ये प्रसूतिः प्रस. वोऽभिव्यक्तिरेवोदानस्य । अन्तरैवेत्येवकारो भिन्नक्रमः । उक्त ऍव चान्वयः । अयमर्थः । प्राणापानाम्यामुच्छ्वासनिश्वासाभ्यां धम्यमानो हि जाठरोऽग्निरन्नं भुक्तं पचति तत्पाकनिर्वृत्तं च समानो विभज्य समं नयति । एवमशितपीतयोः समं नीतयोः सतोः क्षुदुत्पद्यते पिपासा च तदोदान उद्भूतवृत्तिरास्यगतं यत्किंचिन्निगिरति पित्तोद्रेकवशाद्वोद्रिति हृदयादिगतं कफादिकं ततो देहे बलपुष्ट्याद्याधानं व्यानवायोः कृतं भवति । एवमुक्तप्रकारेण पूर्वेषां चतुर्णा वायव्यापाराणां यथावदनिवृत्तौ व्यानस्य संचारसौष्ठवाभावाद्देहे बलपुष्ट्यादयो न जायन्त इत्येतदनुभवसिद्धं शास्त्रसिद्धं चातो युक्तोऽयं क्रमनिर्देश इति । अथ योऽयं पीताशितं पीतं चाशितं च पीताशितं तदुद्गिरत्यूर्व निःसारयति निगिरति वा नीचैर्गिरति तिरो दधातीति वैष वाव स उदान इति पूर्ववत् ।
१ क. 'ज्य व्या । २ ‘स्य जठौं । ३ क. संज्ञ । ४ क. एयान्व' । ५. क. मध्यमानो । ६ निवृत्तौ । ७ क. 'नसं।
For Private And Personal