________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३६२ रामतीर्थविरचितदीपिकासमेता-[ २ द्वितीयः प्रपाठकः ]
स नारमत० विविशामीति । स प्रजापतिरेवंविधाः स्वसृष्टाः प्रजा दृष्ट्वा पुनरपि नारमत नाप्रीयत तदा सोऽरमणनिवृत्त्यर्थममन्यत विचारितवान् । एतासां प्रतिबोधनाय प्रबुद्धतामापादयितुं चेतनतामापादयितुमभ्यन्तरमभितोऽन्तरं सर्व देहमापादतलमस्तकं विविशामि विशेषेण विशामि प्रवेक्ष्यामीत्यमन्यतेत्यर्थः । अत्र ह्यात्माऽग्निरिवायःपिण्डादिसमारूढो विशेषतः परिस्फुरति नान्यत्रेति देहेषु प्रवेश उच्यते न पुनस्तक्षेव गृहं कृत्वा ततोऽन्यः संस्तत्र प्रविष्टः किंतु स्वात्मानमेव प्रसिद्धमायाविवबहुधा व्यू(व्यु)ह्य तत्तदेहाद्यभेदेन विशेषतो द्रष्टुश्रोतृमन्तृविज्ञात्रादिभावेन विभाव्यत इति भावः। प्रवेशप्रकारमाह
स वायुरिवाऽऽत्मानं कृत्वाऽभ्यन्तरं प्राविशत् । स वायुः० प्राविशदिति । स प्रजापतिरीश्वर आत्मानं स्वरूपं वायुरिव कृत्वा वायुः प्राणः प्राणवायुमुपाधिं कुर्वस्तद्वद्भावमापन्नो वायुरिवेत्युच्यत इत्थमभ्यन्तरं प्राविशदित्यर्थः । तथा च श्रुत्यन्तरे- "तं प्रपदाभ्यां प्रापद्यत ब्रह्ममं पुरुषम्" इति प्राणरूपं ब्रह्मोपक्रम्याऽऽम्नायते ।
एवमपि भत्रेव वायुना पूर्ण न व्यचेष्टत यदा शरीरजातं तदा किं कृतवानीश्वरस्तदाह
स एको नाशकत्स पञ्चधाऽऽत्मानं विभज्योच्यते स एकः० उच्यत इति। एकरूपः सन्नाशकद्देहं विचालयितुं नाशक्नोत् । स पुनरास्मानं पञ्चधा विभज्य क्रमाक्रमाम्यां क्रियाभेदं कुर्वन्देहादिकं चालयन्नास्त इति प्राणादिशब्दैः स एवोच्यत इत्यर्थः । के ते प्राणादयो विभागाः किंलक्षणाः किंकर्माणश्चेत्यपेक्षायामाह
यः प्राणोऽपानः समान उदानो व्यान इति । यः प्राणः० व्यान इतीति । इत्येते पञ्च निर्दिष्टाः । अथैषां लक्षणं क्रियाश्च दर्शयति
अर्थीयं य ऊर्ध्वमुत्क्रामत्येष वाव स प्राणोऽथ योऽयमवाङ्सक्रामत्येष वाव सोऽपानोऽथ येन वैताऽनुगृहीतेत्येष वाव स व्यानोऽथ योऽयं स्थविष्ठो धातुरन्नस्यापाने प्रापयत्यणिष्ठो वाऽ. ङ्गेऽङ्गे समानयत्येष वाव स समानसंज्ञा उत्तरं व्यानस्य रूपं
१ क. त त । २ ग. °न् । किम् । ए । ३ क. °यितुमभि । ४ क. सर्वदे। ५ क. 'नं स्वं रू' । ६ क. 'स्तत्तद्भा । ७ ग, पूर्णा । ८ ख. थायमूर्ध्व ।
For Private And Personal